________________
११ पुवला:-जीवाः प्राणिन इति च लोके व्यवहियमाणाः स्कन्धेभ्यो नान्ये । वात्सीपुत्री
यास्तु पुद्गलात्मवादिनः स्कन्धेभ्योऽन्यत्वानन्यत्वाभ्यामवाच्या इत्याहुः ।
धर्माः-बीजाकुरादिः कार्यकारणभावलक्षणः । ११ पञ्च स्कन्धाः भूमिकायां व्याख्याताः।
गोत्रम्-द्विधा भवति गोत्रं नियतमनियतं चेति। नियतं तु श्रावकगोत्र-प्रत्येकबुद्धगोत्रबोधिसत्त्वगोत्रभेदेन त्रिविधम् । येषां श्रावकयाने खरसतो नैसर्गिकी रुचिर्भवति तेषां गोत्रविशेषः श्रावकगोत्रमुच्यते, येषां तु प्रत्येकबुद्धयाने तेषां गोत्रविशेषः प्रत्येकबुद्धगोत्रमुच्यते, येषां तु बुद्धयाने तेषां गोत्रविशेषो बोधिसत्त्वगोत्रमुच्यते । अन्यदनियतम् । लकावतारसूत्रादौ व्यक्तमेतत् ।
१३ अध्वान:-अतीतादयस्नयः कालाः ।
५११)
१४ आर्यमार्ग:-सम्यग्दृष्टिः सम्यक्सङ्कल्पः सम्यग्वाक् सम्यकर्मान्तः सम्यगाजीवः सम्य
व्यायामः सम्यक्स्मृतिः सम्यक्समाधिश्चेति । धर्मसङ्ग्रहेऽन्यत्र च व्यक्तमेतत् । फलस्थाः -स्रोतआपत्तिफलम् सकृदागामिफलम् अनागामिफलम् अर्हत्फलं चेति चत्वारि फलानि । क्लेशोपशमपर्वक्रमेणोत्तरोत्तरमभ्यर्हितानि । तत्तत्फलप्राप्त्या फलस्थाश्चत्वारः स्रोतापनः सकृदागामी अनागामी अहंश्चेति । प्रतिपत्रकास्तु-तत्तत्फलाकाहुया तत्तत्फलप्रापकेषु मार्गेषु प्रवृत्ताः । ते च स्रोतआपत्तिफलप्रतिपन्नकः सकृदागामिफलप्रतिपन्नकः अनागामिफलप्रतिपक्षकः अर्हत्फलप्रतिपनकश्चेति चत्वारः।
तत्र फलपर्वणि क्लेशप्रहाणलक्षणे तारतम्यं प्रहातव्यानुशयभेदाद्भवति । दर्शनप्रहातव्या भावनाप्रहातव्याश्चैत्यनुशया द्विधा मिद्यन्ते । ये भावनानिरपेक्षं दर्शनमार्गेणैव प्रहीयन्ते ते दर्शनप्रहातव्याः। ये तु भावनया ते भावनाप्रहातव्याः। तत्र दर्शनमार्गे-दुःखसमुदयनिरोधमार्गलक्षणार्यसत्येषु चतुर्दा प्रत्येकं धर्मज्ञानक्षान्तिक्षणधर्मज्ञानक्षणान्वयज्ञानक्षान्तिक्षणान्वयज्ञानक्षणभेदेन चतुर्धा भिन्ने आहत्य षोडशक्षणलक्षणे क्रमशश्चरतो मार्गे मार्गे प्रक्षीयमाणसत्कायदृष्ट्यादितत्तदनुशयस्य अन्तिमे षोडशे अन्वयज्ञानक्षणलक्षणे चरतः अपगतेषु चापरेष्वनुशयेषु प्रक्षीणाशीत्यनुशयत्वं भवति सोऽयं स्रोतआपनः । आपञ्चदशं तु स्रोत आपत्तिफलप्रतिपक्षक उच्यते। अयं निर्वाणप्रापकप्रवाहमनुप्रविष्ट इति स्रोतमापन इति व्यपदिश्यते । ये तु भावनाप्रहातव्यास्ते दश । तत्रैकै क्रमाद्राभ्यां द्वाभ्यां ज्ञानक्षणाभ्यां क्षीयते, तदेवं विंशतिक्षणलक्षणे भावनामार्गे आषष्ठात् (षष्ठात्प्राक्) सकृदागामिफलप्रतिपनक उच्यते। षष्ठे क्षणे (मार्गे) प्रक्षीणानुशयविशेषः सदागामीत्युच्यते । सोमं सदिम