________________
६८
1
तरेवे व महाशयैः शाक्यदर्शनरहस्यं जिज्ञासमानानां नः शाक्यदर्शननिबन्धावलोकनौपयिकं साहाय्यं तत्तनिबन्धवितरणादिलक्षणं समापादितम् । यत एव नः शाक्यसमय विज्ञानमियदपि । प्रस्तावनामिमामारचयितुं प्रवृत्तैरस्माभिः प्रज्ञापारमिता सद्धर्मपुण्डरीककरुणापुण्डरीकचतुः शतिका माध्यमिककारिका बोधिचर्यावतारप्रभृतयः परिशीलिता नाम । प्रन्थसंशोधनारम्भसमये तु नैतावती सहायसम्पत्तिरभूत् । स्याच्च क्वचित्प्रमादः संशोधनकर्मणि । अपिच - अस्य निबन्धस्य संशोधनं एकमेव पुस्तकमवलम्ब्य प्रवृत्तम् । तच पुस्तकं पाटणू वाडीपार्श्वनाथभण्डारे सुपरिरक्षितं समानीतं च गायकवाडराज्यस्य पुस्तकालयाधिकारिभिः । यस्यायमन्तिमो वाक्यलेख :- " कमलशीलसूत्रं समाप्तम् संवत् १४९२ वर्षे आषढ वदि १४ शुक्रे लेखिता" इति ( मूलस्यायं ) " कमलशीलाभिधान पुस्तकं समाप्तम् संवत् १४९२ वर्षे कार्तिक वदि ३ रविवासरे अणहिल्लपुरपत्तने” इति च (टीकायाम् ) तच्च क्वचित्क्वचिदतिजीर्ण संरक्षणैकान्तैर्दृश्यवर्णरेखैः सूक्ष्मतमपत्रैस्समाच्छादितमत एवानभिव्यक्तवर्णं क्वचित्क्वचिदशुद्धसंवलितं पदवाक्यविश्रान्तिचिहरहितं चेति संशोधने क्लेशाधिक्यावहमभूत् । अतश्च स्यादपि स्खालित्यानामवकाशः । संशोधनपत्रे च तत्तदशुद्धिपरिहरणं विहितमस्माभिः ।
शान्तरक्षितोऽयं निबन्धेऽस्मिन् कारिकात्मके तत्र तत्र कुमारिलभर्तृहरिभामहप्रभृतीनां मतमनुवदंस्तदीयाभिरेव कारिकाभिरनुवदति । न स्वयं तदनुवादाय कारिका अपरा विरचयति । अतोऽस्य शैली विज्ञायते - परस्य चेत् कारिकाः स्युः, तन्मतं तत्कारिकाभिरेव नियतमनुवदेत् न पृथकू कारिकानिमणिप्रयासमपार्थकं वहेदिति । ततश्च सम्भाव्यते शुभगुप्तप्रभृतीनां मतमनुवदता तेषामेव कारिकाः संग्रथिताः स्युरिति । तन्निबन्धश्च कारिकात्मक इति व्याख्यानतोऽवगम्यते । एवंविधे सम्भावनास्पदे स्थाने अस्येयं कारिकेति निर्णयाधायकस्तत्तन्निबन्धो नोपलभ्यते । येन श्लोकवार्त्तिकदिष्विवान्यत्रोपलभ्य निर्णयः कर्तुं शक्येत । अतश्चानुपलम्भादाकरे न तासां परिगणनावकाशः । किञ्च – अत्र सर्वज्ञपरीक्षायां " एतावत् कुमारिलेनोक्तं पूर्वपक्षीकृतमिति वचनेन ( ८४४) कुमारिलवचनतया ज्ञाप्यमाने (मूले), “किंवा क्षुद्रपिशाचाद्यै" रित्येतदन्ते “धर्मज्ञत्वनिषेधश्चेदित्यादौ कारिकाजाते काश्चन कारिकाः समुपलभ्यन्ते श्लोकवार्त्तिके, काश्चन नोपलभ्यन्ते । सन्दर्भतश्च कुमारिलस्यैव कृतिरिति च विज्ञायते । तत् कुमारिलस्यैवापरा कृतिः स्यात्, यत्र सर्वज्ञनिरसनं विस्तृतं स्यात् । यत एवौद्धत्यानुवाद ह कृतः स्यात् इति सम्भाव्यते । स्वतः प्रामाण्यपरीक्षायामप्येवमुपलभ्यते ।
क्वचित्प्रमादात्परकारिका अपि निबन्धकारस्येत्यवधृत्य प्रलुप्तस्थाने खमत्या पूरिता नाम । स च प्रमादः शुद्धिपत्रे परिहृतः । यानि प्रमदादनुपलम्भाद्वा आकरानुक्रमणिकायां विगलितानि स्युः, तानि पुनर्मुद्रणावसरे सत्यवसरे प्रकाश्येरन् ।
परिशील्य बहून् ग्रन्थान् शाक्यसिद्धान्तबोधकान् । भूमिकाऽस्य निबन्धस्य रचिता नातिविस्तृता ॥ अनेकतन्त्रकान्तारे बहुशो विशतो मम । विष्णुरव्याहतः पन्था हृदयान्मापसर्पतात् ॥
एं - कृष्णमाचार्यः (श्रीरंगम्) वडताळ् संस्कृतपाठशालाप्रधानपण्डितः ।