________________
रजःकणादौ सावश्यं सिषाधयिषितं नच । काकदन्तपरीक्षावधेन साद्विफलः श्रमः ॥ १६ ॥. . धर्माचशेषयाथात्म्यविज्ञानं तु विवक्षितम् । बुद्धस तटेतैव यावरणसंक्षयात् ॥ १७ ॥ मयादीनां रासनेन वेद्यता खल दूषणम्। . . रागावलेपरहितचित्तमात्रेण वैद्यता ॥१८॥ नैरात्म्यादिखभावेन सा कथं दूषणं भवेत् ।
विज्ञानमात्रवादे तु दोषस्यास्य नचोत्थितिः ॥ १९ ॥ 2 अतीन्द्रियार्थदर्शित्वं न घटेतेत्यसद्वचः।
चक्षुःपथातिगोऽप्यर्थो मनसा खलु दृश्यते ॥ २०॥ न सोऽस्त्यर्थः क्वचित् कश्चिदपदं मनसोऽपि यः । स्मार्तादिज्ञानगम्यत्वं सर्वैः सर्वत्र सम्मतम् ॥ २१ ॥ किन्त्वभ्यासोत्कर्षकाष्ठागतेः सातिशयं मनः । स्फुटावभासं भवति तत्तदा तेन पश्यति ॥ २२ ॥
चात्र किधिदक्षार्थमर्यादाव्यतिलकनम् । तदतीतान् व्यवहितांश्चक्षुरादेरगोचरान् ॥ २३ ॥ क्षणिकत्वादिभिर्धमैः सम्यक् भावयतः सदा । अभ्यासाजायते तेषामपरोक्षं हि मानसम् ॥ २४ ॥ वासनाभेदभूयिष्ठं यावञ्चित्तं प्रवर्तते । तावदेव त्विन्द्रियार्थनियमेन नियन्त्रितम् ॥२५॥ वासनायां व्यपेतायां व्यपेतनियमं तु तत् । सर्व सर्वार्थसम्बद्धं जायते वस्तुतः खल ॥ २६ ॥ परस्य न च निस्तारो विनाऽतीन्द्रियदर्शिनम् । प्रामाण्यं ननु वेदानां वाच्यं तत्कर्तृकत्वतः ॥ २७ ॥
अकर्तृकत्ववादस्तु प्रागेव हि निराकृतः । 3 धर्माधर्मपरिज्ञानं बुद्धादन्यस्य कस्य वा ॥ २८ ॥
सर्व एव हि विभ्रान्ताः स्थिरवस्त्वभिमानिनः ।
वस्तुसत्ताविवादेन न विपर्येति कुत्रचित् ॥ २९ ॥ 4 प्रमाणानां निवृत्त्या तु प्रमेयं न निवर्तते ।
अध्यापकनिवृत्त्या स्थानाव्याप्यस्य निवर्तनम् ॥३०॥ सा प्रमाणनिवृत्तिश्च कचिदृष्टा न साधनम् । सर्वप्रमातृसन्दोहे तदृष्टिस्त सुदुर्घहा ॥ ३१॥ सर्व बाधकं नापि प्रमाणमुपलभ्यते । तथाच निहताऽसिद्धिः सर्वशस परोदिता ॥ ३२॥