________________
सबंशपरीक्षा।
जैमिनीया। प्रामाण्यं शाक्यवाक्यानामिच्छद्भिस्तत्पपानुगैः । 1 सर्वज्ञसाधने यनो व्यपेतार्थो वितन्यते ॥१॥
सर्व सामान्यरूपेण वेति सर्वोऽपि मानवः। ताइप्पेण तु सर्वाणि न कश्चिद्वेत्तुमर्हति ॥ २ ॥ नहि वेतुं प्रभवति कश्चित् सर्वान् रजःकणान् । परीक्षितः काकदन्तरित ज्ञातैश्च किनु तैः ॥३॥ किन स्थायदि सर्वज्ञः सर्वसाक्षात्कृतिक्षमः।
साक्षात्कृताशुचिद्रव्यरसत्वाद्दोषभाक् भवेत् ॥ ४ । 2 अतीन्द्रियार्थदर्शित्वं घटते नच कस्यचित् ।
अर्थेन्द्रियखभावो हि मर्यादा नातिवर्तते ॥ ५ ॥ शक्तिप्रकर्षः शक्येषु, नाशक्येषु प्रवर्तते ।
अभ्यास इव योगोऽपि सती शक्तिं हि वर्द्धयेत् ॥ ६ ॥ 3 धर्माधौं खतो वेत्तीयेतचाप्यर्थसाधनम् ।
तत्खरूपे त्यनियते कापिलादिविवादतः ॥ ७॥ 4 प्रमाणपञ्चकाभावात्सर्वज्ञो नैव सिध्यति । . किन्त्वभावप्रमाणेन तदभावस्तु सिध्यति ॥ ८॥
अनपेक्षितसर्वज्ञात्वतो मानादकर्तृकात् ।
भवत्यबाधितो वेदाधर्माधर्मविनिश्चयः ॥९॥ 5 नच सौगतसावश्ये प्रमाणमुपलभ्यते ।
खशिष्यहार्दविज्ञानान सावश्यस्य सम्भवः ॥१०॥
अतीतानागतानन्तपरहार्दानवेक्षणात् । 6 यश्चायमिष्यते बुद्धः सर्वावरणसंक्षयात् ॥११॥
शुद्धस्फटिकसङ्काशझानेन सकलानिमान् । याथातथ्येन संबुष्यन् धारणायां समास्थितः ॥ १२ ॥ सदा समाहितः सोऽयं परानुपदिशेत् कथम् । तस्माद्यदोपदेष्टाऽयमसर्वशस्त्रदा पुनः ॥ १३ ॥
अत्र सौगता। हन्त सौगतसावश्यप्रदेषग्लपिताशयः ।
सर्वज्ञमात्र विद्वेष कुरुते मन्दधीरयम् ॥ १४ ॥ 1 सर्व सामान्यतः सत्यं वेत्ति सर्वोऽपि मानवः ।
ताप्येण तु सर्वाणि संबुद्धो बोडुमर्हति ॥ १५ ॥