________________
६१
वेदस्यापौरुषेयत्वं प्रागेव ह्यपसारितम् । नवापरहितैकार्थः सर्वज्ञो भवतो मते ॥ १९ ॥ यस्य कर्तुर्गुणेनायं वेदः प्रामाण्यमर्हति । सन्देहश्व विसंवादो जागर्त्ति तु पदे पदे ॥ २० ॥ व्याख्यातारः के नु नाम रागद्वेषादिदूषिताः । येषां विरच्यते श्लाघा ते हि मन्वादयस्त्विति ॥ २१ ॥
3 शक्तिः खाभाविकी काचिद्या प्रमाणेषु कल्प्यते । सा चेत् खाश्रयहेतुभ्यो नान्यं कश्चिदपेक्षते ॥ २२ ॥
न विशेषस्ततः कश्चित् यल्लाभात्स्यात्समीहितम् । सर्व ज्ञानं स्वहेतुभ्यः शतमेव हि जायते ॥ २३ ॥ तैरेव हेतुभिः पश्चात् शक्तिर्जायत इत्यसत् । प्रागशकं ततः पश्चान्न हि शक्तं भवेत्क्वचित् ॥ २४ ॥ स्वभावभेदे वस्तूनां भेद एव हि सिद्ध्यति । क्षणिकत्वं च विज्ञाने भवताऽप्यभिमन्यते ॥ २५ ॥ अस्माभिः सर्ववस्तूनां क्षणभङ्गस्तु साधितः । स्याद्भूतार्थपरिच्छित्तिः प्रमाणाच्छतिमतया ॥ २६ ॥ तत्परिच्छेत्तृता तस्य खात्मना नहि गृह्यते । अन्यथा तुल्ययुक्त्या स्यान्मिथ्यात्वस्य खतो ग्रहः ॥ २७ वयं त्वनियमं ब्रूमः प्रामाण्यस्य खतो प्रहे । योगिज्ञानादिकं यत्तु चोदनाजनितादि यत् ॥ २८ ॥ प्रामाण्यस्य खतो वित्तिः परतस्तु तयोः क्रमात् । एतेनार्थक्रियाज्ञाने स्वतः प्रामाण्यनिश्वयात् ॥ २९ ॥ प्रामाण्यनिश्वयः प्राच्ये नानवस्था च सम्भवेत् । प्रामाण्यमविसंवादः स चास्त्यर्थक्रियात्मकः ॥ ३० ॥ अर्थक्रियावभासस्तु स्पष्टाभ उपजायते ।
दाहपाकादिविज्ञानं किंवा कस्यचिदस्फुटम् ॥ ३१ ॥
तस्मादर्थक्रियाज्ञानप्रामाण्यस्य खतो ग्रहः । प्रत्यक्षमाद्यमपि यदभ्यासातिशयोत्थितम् ॥ ३२ ॥
स्फुटाभत्वात्स्वतस्तस्य प्रामाण्यमुपगृह्यते । स्वतः प्रामाण्यनियमे यद्ययं स्याद्दुराग्रहः ॥ ३३ ॥ खतोऽप्रामाण्यनियमे किं न कार्यो दुराग्रहः । उत्सर्गतस्तु ज्ञानानामप्रामाण्यावबोधिता ॥ ३४ ॥ बाघकारणदुष्टत्वज्ञानाभावात्तु बाध्यते । इत्येवमपि वक्तुं हि सुशकं युक्तितौल्यतः ॥ ३५ ॥