________________
६.
वर्ततेऽनन्यसापेक्षः कलशो हि यथा खयम् । तथा प्रमाणं सकलं समुत्पर्ष खहेतुतः ॥३॥ खकार्येऽनन्यसापेक्षं पूर्वोक्त वर्तते खयम् । यथा पर्यपरिच्छित्यै प्रमाणं कल्पते खयम् ॥ ४॥ खप्रामाण्यपरिच्छित्यै तथा प्रभवति खयम् । यदि प्रमाणसापेक्षमनवस्था प्रसज्यते ॥ ५॥ प्रामाण्यग्रहणायान्यद्यत्प्रमाणं प्रगृह्यते । तत्रापि तत्परिच्छित्त्यै पुनरन्यदपेक्ष्यते ॥ ६ ॥ एवं क्रमेण प्रामाण्यप्राहकस्य गवेषणा । न विश्रान्तिपदं गच्छेदन्यान्यस्य व्यपेक्षणात् ॥ ७॥ प्रामाण्यप्राहकं यत्स्यात् प्रामाण्यं तस्य चेत्खतः । पूर्वतः को विशेषोऽस्य तदेव तु तथेष्यताम् ॥ ८॥ प्रास्तं तत् गुणविज्ञानात् संवादज्ञानतोऽपि वा। खतःप्रमाणात्प्रामाण्यं गृह्यते परतस्त्विति ॥ ९॥ अपि खतःप्रमाणत्वे खतःप्रामाण्यधीः क्वचित् । बाधकारणदुष्टत्वज्ञानाभ्यामुपरुध्यते ॥ १०॥
अतः खतःप्रमाणत्वमौत्सर्गिकमिदं मतम् । 2 सति सर्वप्रमाणानां खतःप्रामाण्यवैभवे ॥११॥
वेदस्यापौरुषेयस्य तथात्वे किमु कथ्यताम् ।
गुणदोषविसंवादाः सम्भवन्ति न यत्र हि ॥ १२॥ 3 इतोऽपि वा प्रमाणानां खतःप्रामाण्यमुच्यते।
शक्तिः खाभाविकी तेषां यतोऽर्यग्रहणादिषु ॥ १३ ॥ सा हि खाश्रयसामप्रेर्नान्यं हेतुमपेक्षते ।
अत्र सौगताः। 1 जन्मानन्तरसत्ताकं प्रमाणं यदि सम्भवेत् ।
घटस्पेव तदाऽस्यापि स्यात्वकार्ये खयं स्थितिः ॥ १४ ॥ क्षणिकं ननु विज्ञानं भवताऽप्यभिमन्यते । असतो जन्मनः पश्चायापारस्तस्य कः पुनः ॥ १५ ॥ जन्मातिरिक्तव्यापारो ज्ञाने नेति हि वो मतम् । किचाक्षणिकमेवास्तु स्थित्वा व्याप्रियतामपि ॥ १६ ॥ प्रमाणे संशयो माभूत्प्रामाण्यस्य विनिश्चयात् ।
प्रमाणेष्वपि सन्देहसम्भवः सार्वलौकिकः ॥ १७ ॥ 2 एवं हते प्रमाणानां खतःप्रामाण्यवैभवे ।
चोदनालक्षणे वेदे क तदाशाऽवधार्यताम् ॥ १८ ॥