________________
अयोग्यो नोपलभ्येत संस्कारेऽपि कृते सति । ननु शन्दे विचारोऽयमहेतौ घटतां कथम् ॥ ७३ ॥ योग्यायोग्यविचारो हि हेतावेवेति चेन तत् । विषयो यद्यहेतुः स्यात्प्रत्यक्ष प्रायता कथम् ॥ ४ ॥ शफिराधीयते श्रोत्रे या नभोभागलक्षणे । सा श्रोत्राव्यतिरिक्ता चेत् श्रोत्रस्य स्थाजनिस्तदा ॥ ७५ ॥ शतः प्राग्वाऽपि सत्त्वं स्यात् स्थिरश्रोत्रात्मतावशात् । सा श्रोत्रव्यतिरिक्ता चेत्तया शब्दाहोदयात् ॥ ६ ॥ श्रोत्रस्य तु ततोऽन्यस्य शब्दप्राहकता कयम् । सा ततोऽन्याऽपि तस्यैवेसस्ति तस्यापि हेतुता ॥ ७ ॥ एषा दुराशा, सम्बन्धः शतः श्रोत्रेण को भवेत् ।। न तादात्म्यतदुत्पत्ती, तत् संस्कारः सुदुर्वचः ॥ ८ ॥ कोध्यो वायुः समुत्पत्त्य कर्णाभ्यन्तरमाविशन् । संस्करोति नभोभागलक्षणं श्रोत्रमित्यसत् ॥ ७९ ॥ फर्णाभ्यन्तरमाविष्टः स चेत्, कस्मान गृह्यते । तत्तदानीतभूतांशस्पर्शो वा किं न गृह्यते ॥८॥ अव्यापिनोऽपि शब्दस्य मिनदेशे सतः क्वचित् । अयस्कान्तो विप्रयुक्तलोहस्साकर्षको यथा ॥ ८१॥ श्रोत्रं तथा प्राहकं स्यात् विचित्रा वस्तुशक्तयः । तुल्या दिक् श्रोत्रपक्षेऽपि संस्कारानुपपजता ॥ ८२ ॥ शब्दार्ययोस्तु सम्बन्धो नैव, यज्ज्ञानसिद्धये । शब्दनित्यत्वचिन्ता स्यात् , स च प्रागेव खण्डितः ॥ ३ ॥ शब्दार्थयो कोऽप्यस्ति सम्बन्धः पारमार्थिकः । विवक्षायाः सूचकत्वात् शब्दो बोधक उच्यते ॥ ८४ ॥ सर्वत्र दृष्टमेवैतत् कार्य कारणसूचकम् । विवक्षया कयाचित्तु कोऽपि शब्दः प्रयुज्यते ॥ ८५ ॥ तस्माचेष्टेव शब्दोऽपि सूचको न तु वाचकः । निबन्धे विस्तृतं बोध्यं दियात्रमिह दर्शितम् ॥ ८६ ॥
.
जैमिनीयाः। खतमामा- 1 ननु प्रमाणं सकलं खतःप्रामाण्यमश्नुते । ज्यपरीक्षा। खकार्येऽर्थपरिच्छेदे खप्रामाण्यविनिश्चये ॥१॥
यस्मादनन्यसापेक्षं प्रमाण वर्तते खतः । उत्पत्ती हेत्वपेक्षोऽपि खकार्य जलधारणे ॥२॥