________________
५७
अत्र सौगताः ।
1 श्रुतेरकर्तृकत्वेऽपि प्रामाण्यं नैव सिद्ध्यति । यथा कर्तुरभावेन न स्याद्दोषपदं श्रुतिः ॥ ३९ ॥
तथा कर्तुरभावेन न स्याङ्गुणपदं च सा । अप्रामाण्यं यथा दोषात् प्रामाण्यं तु गुणात् खलु ॥ ४० ॥ दोषो भ्रमप्रमादादि गुणः सार्वज्ञतादि तु । तदेतद्वयराहित्ये षडपूपादिवाक्यवत् ॥ ४१ ॥ आनर्थक्यादप्रमात्वमनिवार्य समापतेत् । सत्यत्वस्य गुणापेक्षा निबन्धे हि सकर्तृके ॥ ४२ ॥ अपौरुषेये वेदे तु खतः सत्यार्थबोधके । अतद्यपेक्षं सत्यत्वमिति चेन्मन्यते भवान् ॥ ४३॥ अयं विशेषो मिथ्यात्वे तुल्यो ननु विमृश्यताम् । दोषव्यपेक्षं मिथ्यात्वं निबन्धे हि सकर्तृके ॥ ४४ ॥ अपौरुषेये वेदे तु खतो मिथ्यार्थबोधके । रपेक्षं मिथ्यात्वमिति वक्तुं हि शक्यते ॥ ४५ ॥ किष्च तस्य स्वतः सत्यबोधसामर्थ्यमप्यसत् । युगपत्सर्वविज्ञानप्रसङ्गात् हेतुसन्निधेः ॥ ४६ ॥ कदाचिदसमर्थश्चेत् समर्थो न कदाचन । नित्यात् समर्थात्तस्मात्तु सदा सर्व प्रबुद्ध्यताम् ॥ ४७ ॥ सहकारिव्यपेक्षायां नित्यत्वं ननु दुर्घटम् ।
किच व्यपेक्ष्य व्याख्यादीन् क्रमिकान् सहकारिणः ॥ ४८ ॥ बोधकत्वे वृथा तस्यापौरुषेयत्व कल्पना । भूतार्थबोधकत्वाय याश्रिता सा तु कल्पना ॥ ४९ ॥ तश्च तस्याद्य सम्पन्नं व्याख्यातृपुरुषाश्रयम् । 2 अकर्तृकत्वं वेदस्य निश्चेतुं नैव शक्यते ॥ ५० ॥ कर्ता गृहीतो मानेवेत्तत्सत्तायाः क्षतिः कुतः । न प्रमाणनिवृत्तिर्हि वस्तुसत्तानिवर्त्तिका ॥ ५१ ॥ सत्येव विप्रकृष्टादौ प्रमाणं हि निवर्तते । नोत्पत्तिर्नच तादात्म्यं प्रमाणेनास्ति वस्तुनः ॥ ५२ ॥ तत्प्रमाणनिवृत्त्या स्यानिवृत्तिर्वस्तुनः कथम् ।
प्रमाणनिवृत्तिर्वा भवता निश्चिता कथम् ॥ ५३ ॥ असङ्ख्याताः प्रमातारो ह्यनादौ भवमण्डले । सर्वेषां तन्निवृत्तिस्तमन्वसर्वशदुर्प्रहा ॥ ५४ ॥ एकस्य तन्निवृत्तिस्तु नालमर्थनिवर्तने । क्रियाकारकभावेन विभक्तार्थावबोधकः ॥ ५५ ॥