________________
सोऽयं गोशब्द इत्येषा प्रत्यभिज्ञा पबाधिता। . अन्यकालान्यदेशेषप्यनया जायमानया ॥७॥
शब्दानां खलु नित्यत्वं विभुत्वमपि सिध्यति । 4 गोशब्दप्रत्ययाः सर्वे नैव नानावलम्बनाः ॥८॥
एकाकारोपप्रहत्वात्सम्प्रत्युत्पनबुद्धिवत् । अनुमानैरेवमाद्यनित्यत्वं तस्य सिध्यति ॥९॥ नचानुमानतौल्यं स्यादीहक्वेऽर्थघियामपि । व्यक्त्येकता गवादीनां प्रत्यक्षेण हि बाधिता ॥१०॥ मन्दतीवादिभेदस्तु वर्णव्यजकनादगः।
अत एव प्रात्यभिज्ञं गायेकत्वं न हीयते ॥ ११॥ 5 व्यजकस्थविशेषेण व्यङ्ग्यं प्रान्तैस्त गृह्यते ।
यथा पित्तस्य पीतिना शमः पीतोऽवबुध्यते ॥ १२ ॥ एतेन शङ्का प्रास्त्रेयं यो नादो भवतेष्यते। स वायवीयसंयोगविभागात्मा न गृह्यते ॥ १३ ॥ अथ तद्गुणयोगेन कथं स्याद्यायधीरिति । अपि सनिहितं पित्तद्रव्यं नैव तु गृह्यते ॥ १४ ॥ अथापि तस्य पीतिना-शजो प्रान्तैस्तु गृह्यते । अभिव्यजकता चास्य श्रोत्रसंस्कारतो मता ॥ १५॥ शब्दसंस्कारतः कैश्चिदभिव्यजकता मता। श्रोत्रसंस्कारपक्षस्तु मान्यो भाष्यकृता मतः ॥ १६ ॥ श्रोत्रं तु कश्चिद्योनोंऽशः कर्णशष्कुलिमध्यगः। न चानवयवं व्यापि व्योमैकमुपगम्यते ॥ १७ ॥ वायवीयाः केचिदंशा अभिघातसमुत्थिताः । खदेशात् सर्वतोदिकाः प्रसर्पन्तस्ततस्ततः ॥१८॥ प्रबाधमाना वाय्वंशास्तिमितान्वम॑नि स्थितान् । यथावेगं श्रोत्रदेशं तं तं प्राप्य सपथमी ॥ १९ ॥ श्रोत्राकाशे विदधति शक्तिमेकामतीन्द्रियाम् । ईदृशातिशयाधानात् श्रोत्रं नादेन संस्कृतम् ॥२०॥ प्रागेव नादोपरमात् शब्दान् गृह्णाति कांश्चन । व्यायव्याकभावोऽयं वैलक्षण्यायवस्थितः ॥ २१॥ . वैजात्सेन व्यवस्थेयं वर्णनिष्पत्तिवादिनाम् । तुल्याऽन्यथाऽन्यवाय्वंशाद्वर्णोऽन्यो न कुतो भवेत् ॥ २२ ॥