________________
श्रुतिप
रीक्षा ।
५४
अर्थप्रकाशनात्मैव वित्तिः सा नान्यलक्षणा । ज्ञानद्वारतया चक्षुरुपचारात्प्रकाशकम् ॥ ३१ ॥ ज्ञानस्य खप्रकाशस्य कथमेतनिदर्शनम् । तस्माद्विज्ञानमजडं खात्मनैव प्रकाशते ॥ ३२ ॥ तस्मात्सहैव संवित्तेरभेदो नीलतद्वियोः । यौ पृथङ्कोपलभ्येते तयोर्भेदो न चैव हि ॥ ३३ ॥ यथा जनैस्तैमिरिकैश्चन्द्रयोर्दृश्यमानयोः । यथाच खात्मनो भेदो विज्ञाने नच वर्तते ॥ ३४ ॥ तथाच सिद्धं खानन्यनीलाद्याकृति वेदनम् । आकारभेदनियमं विज्ञाने घटयन् परः ॥ ३५ ॥ बाह्यमिच्छति विज्ञाने खाकारस्य समर्पकम् । परास्तमेतद्वाह्यार्थासम्भवस्य प्रसाधनात् ॥ ३६ ॥ खाकारार्पकता चेयं दुर्घटा बाह्यवस्तुनः । विज्ञानाकारवैचित्र्यं वासनापरिपाकजम् ॥ ३७ ॥ नतु बाह्यार्थसद्भावसापेक्षं स्वानभेदवत् । खानन्यैः कल्पिताकारैनींलाद्यैरुपलक्षितम् ॥ ३८ ॥ स्वस्वपूर्वप्रत्ययजं विज्ञानमजडात्मकम् । प्रकाशते स्वात्मनैव न ग्राह्यं ग्राहकं नच ॥ ३९ ॥ तथाच सिद्धं विज्ञानमद्वयं परमार्थसत् ।
जैमिनीयाः ।
विज्ञानमात्रवादादि सर्वमेतदसङ्गतम् ।
अबाधितार्यया श्रुत्या पक्षोऽयं ननु बाध्यते ॥ १ ॥ 1 कर्तृदोषाद्धि वाक्यानामप्रामाण्यस्य सम्भवः । श्रुतेरकर्तृकत्वात्तु प्रामाण्यमनपहवम् ॥ २ ॥ 2 नवोपलभ्यते किञ्चित्प्रमाणं तत्र कर्त्तरि । न प्रत्यक्षानुमाने तो नोपमानागमावपि ॥ ३ ॥ नार्थापत्तिरतः कर्तृराहित्यं सिद्ध्यति श्रुतेः । 3 वेदप्रामाण्यमुच्छेत्तुमादृतातिपरिश्रमाः ॥ ४ ॥ बे स्वकर्तृकताक्षिप्तां प्रास्यन्तो नित्यतां श्रुतेः । अनित्यतां शब्दमात्रे साधयन्त्यनुमानतः ॥ ५ ॥ प्रत्यक्षादिविरुद्धार्थप्रतिज्ञाद्यभिधायिनाम् । तेषां सिषाधयिषितलाभो मन्दधियां कथम् ॥ ६ ॥