________________
न सिध्याचयखलादणोरपि स जापतेत् । दिग्भेदे सत्यनशत्वमपगच्छेदणावपि ॥१५॥ तस्यापि यदि खांशत्वमनवस्था प्रसज्यते। तदना प्रतिक्षेपादणोरध्यक्षता हता ॥ १६ ॥ या सामान्यविशेषाभ्यामेकानेकखभावता । दुर्घटा सा हि वस्तूनां द्वैरूप्यानुपपत्तितः ॥१७॥ द्वे चद्रूपे वस्तुनी द्वे त्यपरस्पररूपतः । अयं द्वैरूप्यवादस्तु परेषां प्राक्पराहतः ॥१८॥ नचाप्यवयवी कश्चिद्वायः प्रत्यक्षगोचरः। परमाणुभिरारब्धो यः परैरुपगम्यते ॥ १९ ॥
परमाणुप्रतिक्षेपादयमप्यपसारितः। 2 बाह्यार्थप्राहिता ज्ञाने घटेत न कथश्चन ॥ २०॥
न हि कश्चन सम्बन्धो बाह्याभ्यन्तरयोस्तयोः । साकारं नच विज्ञानं स्याद्वाह्यस्यावभासकम् ॥ २१॥ खानन्याकारमात्रस्य तद्धि स्यादवभासकम् । निराकारं तु नितरां न बायार्थावभासकम् ॥ २१ ॥ ननु खभावो ज्ञानस्य यदर्थस्यावभासनम् । भदन्तशुभगुप्तः । ज्ञानं परिच्छिनत्त्यर्थानत्र किंनु विकल्पितैः ॥ २३ ॥ ज्ञानं चेत्सत्तयैवार्थपरिच्छेदकमिष्यते । सर्वस्य सर्व विज्ञानं स्यात्परिच्छेदकं तदा ॥ २४ ॥ अर्थेन जन्यते ज्ञानं तत्परिच्छेदकं यदि ।
चक्षुषोऽपि परिच्छेदः स्यात्तत्तेन हि जन्यते ॥ २५ ॥ 3 अर्थवित्तावप्यवित्तिर्वित्तेनैव हि सम्भवेत् ।
नीलादि भासयत्येषा भासमानैव यत्खयम् ॥ २६ ॥ शानं वेशावभासेत मासेतार्थोऽपि नैव सः । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिर्हि सिध्यति ॥ २७ ॥ अर्थप्रकाशने कार्ये व्याप्टता वित्तिरस्ति या। कुमारिलः । सा तदैव व्याप्रियेत कथं खात्मप्रकाशने ॥ २८ ॥ रूपप्रकाशकं चक्षुर्न च खात्मप्रकाशकम् । सद्वित्तिरात्मसंवित्तौ वित्यन्तरमपेक्षते ॥ २९ ॥ इति कस्यचिदाशका साऽप्यनेन पराहता। किं कार्य व्यापतिः कात्र व्यापारान्तररोपिनी ॥ ३० ॥