________________
५१
क्षणिकत्वं यदीष्येत स्वपक्षाच्युतिरेव तु ॥ १८ ॥ कार्यकारणभावे किं प्रमाणं वर्तते तयोः । अन्वयो व्यतिरेकश्च देहबुद्ध्योर्हि दुर्ब्रहः ॥ १९ ॥ देहश्वेदतातो दुर्घटाऽणुषु हेतुता । प्रत्येकं यदि हेतुत्वं विकल्पानन्त्यमापतेत् ॥ २० ॥ संहत्य चेदेकमात्रहासे न स्याच मानसम् । न च सोऽवयवी, तस्य प्रागेव तु निराकृतेः ॥ २१ ॥ अनयैष दिशा बाह्यवस्तूनामप्यसम्भवः । न्याय्यमार्गानुसारेण क्षणिकत्वमिवेष्यताम् ॥ २२ ॥ 3 एवं हेत्वन्तरे प्रास्ते स्वयमुत्पत्त्यसम्भवात् । खोपादानबलोद्भूतं विज्ञानं यत्तदादिमम् ॥ २३ ॥ पूर्वविज्ञानसम्भूतमिति सिद्ध्यत्ययत्नतः । चित्तान्तरारम्भकत्वमन्त्यचित्तस्य चाक्षतम् ॥ २४ ॥ रम्भकारभ्यभावनियमानतिलङ्घनात् ।
4 अर्हचरमचित्तस्य या निदर्शनतोदिता ॥ २५ ॥ न सा खमतसंसिद्ध्या परसिद्ध्या तु सा कथम् । परेष्वपि न सर्वेषु सिद्धमेतन्निदर्शनम् ॥ २६ ॥
5 विज्ञानस्य खभावस्तु नार्थावगतिरूपता ।
स्वाप्नं हि मानसं ज्ञानं नेन्द्रियार्थावभासकम् ॥ २७ ॥ किन्तु खपूर्वविज्ञानवासनापरिपाकतः । यथाखप्रत्ययबलं विज्ञानमुपजायते ॥ २८ ॥
इत्यश्वेन्द्रियशून्येऽपि विज्ञानं कलिले भवेत् । अन्वेति खापमूर्च्छादौ तस्माद्विज्ञानमीदृशम् ॥ २९ ॥
एकं विज्ञानसन्तानं पूर्वापरशरीरयोः । कथं स्यादिति नाशयं प्रत्ययाज्यनुवर्तते ॥ ३० ॥ अत एव च विज्ञानमाद्यं प्राग्वासनानुगम् । रुदितस्तनपानादि कार्य स्यात्कथमन्यथा ॥ ३१ ॥
6. आश्रये निहते देहे नश्येद्विज्ञानमित्यसत् । ज्ञानस्य काऽऽश्रयापेक्षा, तत्किं मूर्त, पतिष्यति ॥ ३२ ॥ न तादात्म्यं न हेतुश्च कथं देहस्तदाश्रयः । अज्ञातशाक्यसिद्धान्तरहस्यो ननु मन्दधीः ॥ ३३ ॥ लोकायतमतेऽसारे सारमन्वेष्टुमिच्छति ।