________________
विज्ञानधारा काऽप्यति यस्या जन्मान्तरान्वयः। इत्येषा कल्पना याऽपि सोपपत्तिविवर्जिता ॥३॥ विच्छेदाजन्ममृत्युभ्यां विच्छेदात्खापमूर्च्छयोः । 3 कार्यकारणभावोऽपि पूर्वापरवपुःस्थयोः ॥ ४ ॥
चैतन्ययोन घटते मिजदेहाश्रयत्वतः ।। विज्ञानयोर्वर्तमानगवाश्वगतयोरिव ॥५॥ 4 न हेतुर्मियमाणस्य चित्तं चित्तान्तरोद्भवे ।
नियमाणस्य चित्तत्वादहचरमचित्तवत् ॥ ६ ॥ 5 नापि ज्ञानप्रसङ्गोऽस्ति कललादिदशाखपि ।
अनिन्द्रियस्येन्द्रियार्थभानं नैव हि सम्भवेत् ॥ ७ ॥ अर्थावगतिरूपाञ्च नान्यविज्ञानलक्षणम् ।
अत एव च मूर्छादौ स्थितिरस्य पराहता॥ ८॥ 6 ज्ञानं त्वाश्रयसापेक्षं देहादन्यो न चाश्रयः ।
आश्रये निहते तच्च नश्येन स्याधिराश्रयम् ॥९॥ नित्यविज्ञानमात्मानमपहायापसर्पताम् । प्रवेशे किमनौचित्यं लोकायतगृहान्तरे ॥१०॥
अत्र सौगताः। 1 अति विज्ञानधारा सा या पुनर्भवभाविनी ।
पूर्वपूर्वप्रत्ययकक्षणिकज्ञानलक्षणा ॥ ११ ॥ वासनान्वितसन्तानसमाबद्धफलान्वया । दूरोत्सारितनास्तिक्या सुधीभिः सुसमर्थिता ॥ १२ ॥ सर्वथा परलोकस्तु नास्त्येवेति न नो मतम् । आरम्भकारभ्यभूततत्तज्ज्ञानादिसन्ततः ॥ १३ ॥ काचिनियतमर्यादामवस्थामवलम्ब्य तु । पूर्वापरविभागेन परलोकः प्रकीर्त्यते ॥ १४ ॥ 2 चैतन्यं न च भूतेभ्यो जायते व्यज्यतेऽपि वा।
स्थैर्य खल्विष्यते भूतेष्वय ते हेतवः कथम् ॥ १५ ॥ सदैव हेतुसानिध्यानित्यं कार्यप्रसङ्गतः । सहकारिव्यपेक्षाऽपि निलस्य न घटेत हि ॥ १६ ॥ आधेयातिशयत्वे हि नित्यतैषां विलुप्यते । नाधीयतेऽयातिशयः किं कृतं सहकारिणा ॥१॥