________________
अतीतादिव्यवहतिर्भावैर्वस्तुगुणैस्तु यैः ।
एषामेवान्यथा भावनिष्वध्वसु न वस्तुनः ॥ ३ ॥ एकस्यामनुरक्तस्याविरक्तस्यापराखिव । अव्यक्तमक्षणस्यापि लक्षणान्तरयोगतः ॥ ४ ॥ अध्वसु त्रिषु वस्तूनामन्वयं मन्यते परः । ते च वृत्तिविशेषाः स्युर्यैरतीतादिलक्षणैः ॥ ५ ॥ अतीतादिव्यवहृतिर्भवत्येकस्य वस्तुनः । माता च दुहिता चेति नार्येकैव यथोच्यते ॥ ६ ॥ पूर्वापरमपेक्ष्यैवमेकोऽप्यन्यान्य उच्यते । यस्य पूर्वापरे स्तः स वर्तमान इतीर्यते ॥ ७ ॥ पूर्वापरे ययोर्न स्तस्त्वतीतानागतौ क्रमात् । 2 त्रैकाल्यं निर्वहत्येवमन्यथान्यथिकः परः ॥ ८ ॥ त्रैकाल्यं निर्वहत्यन्यः कारित्रस्य व्यपेक्षया । या फलाक्षेपशक्तिः सा कारित्रमिति कथ्यते ॥ ९ ॥ क्षिप्ता सती मृदुटिका कुत्र्यादिषु क्रमात् । द्वित्र्यादिव्यवहाराणां भवत्येका पदं यथा ॥ १० ॥ कारित्रेऽवस्थितेः, तस्माच्युतेः, तदनवाप्तितः । वर्ततेऽयमतीतोऽय, मनागत, इति क्रमात् ॥ ११ ॥
अन्यान्यव्यवहाराणामेकमप्यास्पदं तथा । तदतीतानागतयोरवस्तुत्वं पराहृतम् ॥ १२ ॥
अतीतानागतज्ञानं नो चेन्निर्विषयं भवेत् । अप्रतीत्य द्वयं नैव विज्ञानमुपजायते ॥ १३ ॥ चक्षू रूपं मनो धर्मा इत्याद्येतत्तु तयम् । इति द्वमाश्रयत्वोक्तिस्तायिनो व्याहता भवेत् ॥ १४ ॥ अवस्तुत्वादतीतस्य वैफल्यं कर्मणो भवेत् । अतीतानागतज्ञानं विभक्तं यत्तु योगिनाम् ॥ १५ ॥ तयोर्वस्तुत्वविरहे तद्घटेत कथं पुनः ।
अत्र सौगताः सुधियः ।
1 साझाप्रक्रियया तौल्यात्प्रथमस्तु पराहतः ॥ १६ ॥ यः स्वभावान्यथाभावः परिणामो हि वस्तुनः । त्यक्तपूर्वस्वभावस्य स चे, द्वस्त्वन्तरं भवेत् ॥ १७ ॥
घोषमतम् ।
बुद्धदेवमतम् ।
वसुमित्रमतम् ।