________________
त्रैकाल्यपरीक्षा ।
४७
मिजस्वभावसामान्यविशेषात्मतया त्वतः । एकस्यानेकरूपत्वं लोकेनैव व्यवस्थितम् ॥ ५ ॥ कारकद्वयरूपत्वमेकस्यापि हि लक्ष्यते । विद्योततेऽभ्रमभ्रादित्यपि लोके प्रयुज्यते ॥ ६॥ विरोधं वाऽविरोधं वा वैषम्यं वा स्वभावतः । उल लोकमर्यादां कः प्रसाधयितुं क्षमः ॥ ७ ॥
अत्र सौगताः ।
का नु सा लोकमर्यादा योपपत्तिपराहता । बालमूढमयो लोको नोपपत्तिमपेक्षते ॥ ८ ॥ एकत्वमप्यनेकत्वं भिन्नतां चाप्यभिन्नताम् । विनाशेमविनाशं च कोन्वेकस्य वदेद्बुधः ॥ ९ ॥ यदेकस्यैव सामान्यविशेषोभयरूपता । .. विरुद्धमिदं सर्वमिति तु व्याहतं वचः ॥ १० ॥ स्वभावभेदे नानात्वं स्यात्सामान्यविशेषयोः । तदात्मतायां नानात्वादेकत्वं नैव सम्भवेत् ॥ ११ ॥ एकवस्त्वात्मतायां च तत्सामान्यविशेषयोः । मिथः खभावभेदस्तु न घटेत कथञ्चन ॥ १२ ॥ स्वभावभेदे त्वसति नानात्वं न तयोर्भवेत् । तथा च नैव नानात्वं वस्तुनोऽपि तदात्मनः ॥ १३ ॥ एकस्य तात्त्विकी नापि कारकद्वयरूपता । विवक्षाभेदमात्रात्तु व्यवहारः प्रवर्तते ॥ १४ ॥
तस्मादेकत्वनानात्वाद्यनेकान्तस्वभावता । एकस्य वस्तुनो नैव कथञ्चिदपि सम्भवेत् ॥ १५ ॥ न वा नृसिंहे द्वैरूप्यं किन्त्वणुप्रचयात्मके । तस्मिन्कांशगं नृत्वं सिंहत्वमपरांशगम् ॥ १६ ॥
सौगतैकदेशिनः ।
वस्तूनां सौगताः केचित्रैकाल्यमभिमन्वते । त्रैकाल्यवादिनस्तेऽपि मतभेदाच्चतुर्विधाः ॥ १ ॥
1 भावान्यथात्वमात्रेण कश्चिदध्वत्रयान्वयम् । हेम्नः कुण्डलकेयूरगुणभेद इवेच्छति ॥ २ ॥
धर्मत्रातमतम् ।