________________
किचात्र स्मृतिसामग्या स्मृतिरेवोपजायते। गवयावयवांशैहि दृष्टैस्तौल्यविकल्पकैः ॥ १२ ॥ बहुशो दृष्टपूर्वायाः स्मृति!रुपजायते। उपमानप्रमाणस्य तदिह व नु सम्भवः ॥ ११ ॥ गवयो यस्तु गोतुल्य इति केनाऽपि बोधितः । प्रविष्टो जातु विपिनं विलोक्य गवयं पुरः ॥ १४ ॥ स्मृतातिदेशवाक्यार्थः सोऽयं गवयसंज्ञकः । इति संज्ञासंज्ञिमावमध्यवस्पति, तत्र तु ॥ १५ ॥ उपमानं वाक्यजन्यसादृश्यज्ञानलक्षणम् । फलं तूपमितिः संज्ञासंज्ञिभावावधारणम् ॥ १६ ॥ प्रामाण्यमुपमानस्य केचिदेवं प्रचक्षते । न चेदं युज्यतेऽर्थस्य यस्मात् शब्दो न वाचकः ॥ १७ ॥ बाच्यवाचकभावो हि प्रतिक्षिप्तः पदार्थयोः । इष्यता वा स नैवात्र मानान्तरमपेक्ष्यते ॥ १८ ॥ गोसादृश्यं त्रिरूपं हि लिङ्ग वाक्येन गम्यते । अर्थे गवयसंज्ञत्वं साध्यं येनानुमीयते ॥ १९ ॥ अतोऽनुमानापार्थक्यमुपमाने न सम्भवेत् । किञ्च संज्ञासंशिभावः प्रागेव यवधारितः ॥ २० ॥ यत्तदारण्यकं वाक्यं किं नावगमयत्यमुम् । तत्प्रामाण्यं कथं वा स्यादस्य स्मृतिसधर्मणः ॥ २१॥ यान्यन्यानि प्रमाणानि तैस्तैः प्रोक्तानि वादिभिः । तेषां निरासो विलेयो निबन्धान्तःप्रवेशतः ॥ २२ ॥
जैनाः।
साहायपरीक्षा।
एकैकमप्यत्र यत्स्यादनेकात्मकमेव तत् । य एव पिण्डः खण्डात्मा स गवात्माऽपि दृश्यते ॥१॥ खण्डो विशेषो व्यावृत्तेरनुत्तेस्तु गौः पुनः । सामान्यं, तदयं पिण्डो नैकात्मा नरसिंहवत् ॥२॥ मुण्डाद्भिनेऽपि खण्डे हि धीर्मुप्ड इव गौरिति । खण्डोऽयं न तु मुण्डोऽयमिति व्यावृत्तिधीरपि ॥३॥ एवं तत्तद्विशेषेषु भाव इत्यनुवृत्तिधीः । गो यं नाश्व इति च मियो व्यावृत्तिधीरपि ॥४॥