________________
कुतो विपर्ययाशा निगमो यत्प्रशान्तये । तस्मात्तथेति वाव्यात्रात्कयं वा सा प्रशाम्यति ॥ १७ ॥ न वा निगमनापेक्षा विशिष्टकार्यवित्तये। अविवकर्णप्रत्सवस्थानपरिहार: अपि वाक्यैर्विप्रकीर्णैः पूर्वैरेव मियोऽन्वितैः ॥ १८॥ सम्बद्धैकार्थबोधो हि निराबाधः प्रजायते । पश्चावयववादोऽयं तदयुक्तः परैः श्रितः ॥१९॥ तस्य व्यवयवस्यास्य प्रामाण्यं श्रोत्रपेक्षया । अनेन सूच्यते लिङ्गं त्रिरूपं श्रोतुरेव हि ॥ २० ॥ अनेनैव निमित्तेन समयात्सनिमित्तकात् । सिद्धाऽनतिप्रसकाऽस्य नः परार्थानुमानता ॥ २१ ॥
प्रमाणान्तर
आभ्यां परं न प्रमाणं, मानत्वे, नातिरिच्यते। प्रामाण्यं यत्परैरिष्टं शब्दस्यार्थावबोधने ॥१॥ शब्दार्थयोरसम्बन्धात्तत्कथञ्चन दुर्घटम् । शब्दस्य प्रमाणान्तरत्वनिरासः • तादात्म्यतदुत्पत्ती सम्बन्धश्चापरो नहि ॥ २ ॥ स तस्वहो वाऽपि क्षणिकेषु सुदुर्घटः। अकर्तृकस्य वेदस प्रामाण्यं दुरपहवम् ॥ ३ ॥ इति यन्मन्यते कैश्चित्तदेतेन पराहतम् । शकाशकविकल्पे तु नित्यवादः प्रणश्यति ॥ ४ ॥ किन्तु शब्दो विवक्षायां लिङ्गभावं समश्नुते । वक्तुर्विवक्षा श्रोता हि लिङ्गादस्मात्प्रपद्यते ॥ ५ ॥ कार्यकारणभावस्तु विवक्षाशब्दयोः स्फुटः । अत एव हि सम्बन्धादविनाभाव एनयोः ॥ ६॥ विषक्षायां तु कस्याश्चित्कश्चिच्छब्दस्तु कारणम् । भावखभाववैचित्र्यानातः स्यादव्यवस्थितिः ॥७॥ गवयं पश्यतः पुंसः कदाचिद्विपिने कचित् । उपमानप्रामाण्यविजय शानं यजायते तुल्या गौरनेनेति सोपमा ॥८॥ तया यः स्मार्यमाणोऽर्थः सादृश्येन विशेषितः । तस्याः सोर्थः प्रमेयं स्यात् तत्स्थं सादृश्यमेव वा ॥९॥ तन्मानमुपमान स्यादिति केचित्तचक्षते । सादृश्यं यदि वस्तु सास्स्यान्मानमुपमा तदा ॥१०॥ भूयोऽवयवसामाम्ययोगरूपं हि तन्मतम् । सामान्य निरस्तत्वादस सिक्षा व्यवस्तुता ॥१॥