________________
अत्र सौगताः। 1 यदक्षसम्प्रयोगोस्थमविकल्पकमेव तत् ।
सत्ताधर्म पुरस्कृत्य तद्धि नार्थावभासकम् ॥ २४ ॥ सत्त्वेनाप्यगृहीतश्चेत् गृहीतः कथमित्यसत् । ध्यावृत्तात्मा विजातीयाचीलादिः पुरतः स्थितः ॥२५॥ सति चक्षुःसम्प्रयोगे सपद्येव प्रकाशते । अतस्तदाक्षं विज्ञानं विशिष्टविषयं खतः ॥ २६ ॥ न विशेषणयोगेन, तस्मात्तत्कल्पना नहि । यद्विशेषणयोगेन विशिष्टविषयं भवेत् ॥ २७॥ तत्तु नाक्ष, कल्पनैव, यस्मात्तत्सविकल्पकम् । जात्यादीनां निरासेन तद्वैशिष्टयावभासिनः ॥ २८ ॥ प्रामाण्यं सविकल्पस्य दूरोत्सारितमेव हि। खलक्षणादमिन्नस्य जात्यादेखभासने ॥ २९ ॥ यथैवालोचनाज्ञानमनाविष्टामिलापकम् । निर्विकल्पं, तथैवेदं स्याज्ञानं निर्विकल्पकम् ॥ ३० ॥ खलक्षणस्यावाच्यत्वं प्रागेव हि समर्थितम् । आयन्तिको विभेदश्चेत् जातेरिष्टः खलक्षणात् ॥ ३१ ॥
कथं विशेष्यं रज्येत जातिबुद्ध्या खलक्षणम् । 3 निर्विकल्पादपि ज्ञानात्सविकल्पस्य सम्भवात् ॥ ३२॥
तद्वारेणाविकल्पस्य व्यवहाराइतोचिता । यदाक्षं कल्पनापोडं व्यावृत्तार्थावभासकम् ॥ ३३ ॥ तेन काचित्कल्पनेयं मानसी संप्रवर्तते। गौरयं नाश्व इति या व्यवहारस्य साधनम् ॥ ३४ ॥ प्रवृत्तिस्तु भवत्यैक्यग्रहाइश्यविकल्पयोः। तभिर्विकल्पहेतुत्वमविकल्पस्य नेत्यसत् ॥ ३५ ॥ कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सुस्थितम् । मानतत्फलमेयानां बोध्यात्रेत्यं व्यवस्थितिः ॥ ३६॥ मानं स्यादर्थसारूप्यं मयस्त्वर्थो बहिःस्थितः । फलं त्वर्थपरिच्छेद इति बायार्थवादिनः ॥ ३७॥ खसंवित्तिः फलं खात्मा मेयो मामं तु संविदः । खसंवेदनयोग्यत्तमिति विज्ञानवादिनः ॥ ३८॥.....