________________
पसंयोगरहिताचेतस्साच साधनात् । . . जायते युगपत्कार्ये अविकल्पविकल्पके ॥ १० ॥ विकल्पो वाऽविकल्पो वा, यौगपये न वाधकम् । नर्तकीं पश्यतः पुंसस्ताम्बूलं चर्वतस्तथा ॥११॥ जायन्ते रूपशब्दादिविकल्पा बहवः खलु । आक्षस्य निर्विकल्पत्वं न घटेतेयसरतम् ॥ १२॥ सविकल्पकभावे हि निमित्तं नात्र वर्तते । विशिष्टार्थप्राहिता तु निमित्तं सविकल्पके ॥ १३ ॥ अतात्त्विकत्वाजात्यादेः क्व तद्वैशिष्ट्यसम्भवः । न च नानोऽस्ति सम्बन्धः कश्चिदर्थेन तात्त्विकः ॥ १४ ॥ तज्जात्यादिविशिष्टार्थग्रहणं कल्पनैव तु ।
सुमतिः। 1 नन्वाक्षमखिलं ज्ञानं विशिष्टस्यैव भासकम् ॥ १५ ॥
सत्तासामान्ययोगेन यदर्थमवभासयत्। आक्षं भवति विज्ञानं निर्विकल्पं तदीयते ॥ १६ ॥ विशेषजातियोगेन यत्तत्स्यात्सविकल्पकम् । सत्तासामान्ययोगेन न चेनार्थावभासनम् ॥ १५ ॥ सदात्मनाऽगृहीतो हि निषेधकोडमापतन् । साक्षस्य विषयो न स्यात्तद्विशिष्टावभासि तत् ॥ १८ ॥ तद्विशिष्टावभासित्वे सत्याक्षं कल्पना न किम् । न चेत्तत्कल्पना, नामयोजना कल्पना कथम् ॥ १९ ॥
कुमारिलः। 2 अस्ति त्वालोचनाज्ञानं धर्मिमात्रावभासकम् ।
नापि सामान्यरूपेण यस्मिन् धर्म्यवभासते ॥ २० ॥ यदेतदाक्षं प्रथमं निर्विकल्पं तदिष्यते । तस्मादेवाक्षसंयोगात्ततस्तस्यैव धर्मिणः ॥ २१॥ विशेषधर्मयोगेन यवत्यवभासकम् ।
सविकल्पकमप्येतत्प्रत्यक्षं त्यक्षहेतुकम् ॥ २२॥ 3 प्रत्यक्षस्थाविकरूपले व्यवहारास्ता कथम् । भाविविक्तः
विकल्पे विषयैक्येन व्यवहाराता स्थिता ॥.२३ ॥