________________
नवापोहार्यदौर्षव्यं सर्वशब्दे प्रसज्यते । तथाहि केवलः सर्वशब्दो नैवार्थबोधकः ॥४१॥ पदान्तरेण संसृष्टः स समर्थोऽर्थबोधने । यदा तु तस्स सामर्थ्य तदापोहस्तु बोध्यते ॥ ४२ ॥ सर्व धर्मा निरात्मान इतिवाक्यगतो हि सः।। केचिदेव नैरात्म्यं यन्मन्दैरुपकल्पितम् ॥ ४ ॥ व्यावर्तयति तत्तय सिद्धाऽपोहार्थवाचिता । अस्यापि सर्वशनस्य गोहस्त्यश्वादिशब्दवत् ॥ ४ ॥ अर्थावबोधसामर्थ्यमवाक्यस्थस्य चेद्भवेत् । असर्वात्मकमेक चेदपोहस्वस्य दुर्घटः ॥ ४५ ॥ न होकस्माद्यवच्छेदः सर्वस्मिनुपपद्यते । इतीयमापतेत् शङ्का न तथा शकिरस्य हि ॥ ४६ ॥ ये चान्ये बहवो दोषास्तैस्तैरुद्भाविताः परैः । है। निरासो बोद्धव्यो निबन्धान्तःप्रवेशतः ॥ ७ ॥
परीक्षा।
गुणद्रव्यक्रियाजातिसमवायादिसिद्धये । परैः प्रत्यक्षमिष्टं यत्तम मानमतत्त्वतः ॥१॥ न पराभिमतं न्यायं यत्तु प्रत्यक्षलक्षणम् । जडाः प्रत्यक्षमिच्छन्ति ये केचिजडमिन्द्रियम् ॥ २॥ परायत्तप्रकाशस्य प्रामाण्यावसरः कथम् । विकल्पाः कल्पनामूला ये विशिष्टावभासिनः ॥३॥ तम गौरयमित्यादेः सविकल्पस्स मानता। प्रत्यक्ष कल्पनापोढमभ्रान्तं सुधियो विदुः ॥४॥ इयं तु कल्पना, या स्यात्प्रतीतिरभिलापिनी। या नामयोजना सेयं कल्पना त्वभिलापिनी ॥५॥ परदृश्या तु जात्यादियोजना, साऽपि कल्पना । तत्कल्पनानात्मकस्तु नैकः स्यात् सविकल्पकः ॥ ६ ॥ कल्पनानात्मकं यत्तु वैशिध्यानवभासकम् । भसिद्धमिति नाश यदन्यासकचेतसाम् ॥ ७ ॥ जायते किश्चिदध्यक्षमामिलापसमुज्जितम् । यतु चेतस्थगभूना विकल्पो जायते तदा ॥८॥ नामान्तरामिलापेन नासावाक्षार्षभासकः । किंतु वचःसम्प्रयोगातू चेतःसाविवर्जितात् ॥॥