________________
जातेच समवायस प्रागेव तु निरासनात् । शब्दार्थता निरसैव जातितयोगतद्वताम् ॥२५॥ अपोहे यत्स्वरूपे तु यादृग्वाच्यत्वमिष्यते। तदेतदपरिज्ञाय दूषयन् दुष्यति खयम् ॥ २६ ॥ अर्थात्मनि न चापोहे वाच्यतास्माभिरिष्यते । किंतु बुख्यात्मकेपोहे, स चापोहो निरूप्यते ॥ २७ ॥ अर्थाकाराध्यवसितं यदर्थप्रतिबिम्बकम् । ज्ञाने विकल्पके भाति सोऽपोहो बुद्धिलक्षणः ॥ २८ ॥ अकारान्तराभासादुद्धरस्या व्यपोहनात् । अपोह इति शब्दोऽस्यां मुख्यवृत्त्यैव वर्तते ॥ २९ ॥ अर्थाकारावभासिन्या बुद्धः शब्दस्तु कारणम् । तद्धतुहेतुमद्भावात्सम्बन्धो नान्य एनयोः॥३०॥ तबुद्धिलक्षणापोहे या स्थिता शब्दजन्यता। नेतरा तामृते वाऽपि सम्भवेत् शब्दवाच्यता ॥ ३१ ॥ तद्बुद्ध्यात्माऽपोह एव शब्दार्थ इति नो मतम् । अगोनिवृत्तिः शब्दार्थो यदि गौः केन गम्यते ॥ ३२ ॥ गोशब्दं शृण्वतः पूर्वमगौः स्फुरतु चेतसि । इति यहूषणं प्रोक्तं तस्य नावसरोऽधुना ॥ ३३ ॥ अगोनिवृत्तिः साक्षात्तु नहि शब्देन बोध्यते ।
जन्यते किन्तु शब्देन साक्षात् गोवुद्धिरेव हि ॥ ३४ ॥ 3 उत्तो बुद्ध्यात्मकोऽपोहः पर्युदासात्मकोऽप्ययम् ।
परामिमतसामान्ये वाच्यत्वं न प्रसञ्जयेत् ॥ ३५ ॥ स हि बुद्धरनन्ये तु सामान्ये तत्प्रसञ्जयेत् । बहुषनुगतं येकं वस्तुसत्तत्परैर्मतम् ॥ ३६॥ सर्वत्र शाबलेयादी गौर्गौरिति समोदयात् । बाह्यरूपतयाऽध्यस्तबुद्ध्यारूढावभासनात् ॥ ३७॥ सामान्यं नापरं किश्चित्परमार्थसदिष्यते । प्रसज्यप्रतिषेधात्मा नापोहोर्थो गिरां मतः ॥३०॥ तदखीकृतपक्षस्य दूषणं नो न दूषणम् । प्रतिमाख्यः पदार्थोऽपि वाक्यार्थ इव नो मतः ॥ ३९
प्रतिविम्बात्मकेऽपोहे पदार्थत्वं हि साधितम् । 4 न वैषम्यप्रसनो नतद्वाक्यार्षपदार्थयोः ॥ ४०॥