________________
प्रतिभाख्यं तु वाक्या बायाानवधीरयन् । यः कल्पयति किं तस्य पदार्थे व्यर्थचिन्तया ॥ ११ ॥ वाक्यार्थे या गतिर्दृष्टा पदार्थे सा भवेन्न किम् । वाक्यात्पदमपोद्धृत्य व्यर्थोऽपोहार्थताश्रयः ॥ १२ ॥ सर्वशब्दस्य को वाऽर्थो न पसर्व प्रसिध्यति । (उद्योतकरः।) यधवच्छेदतोऽपोहे सर्वशब्दार्थता भवेत् ॥ १३ ॥ असर्वात्मकमेकं चेदपोहस्तस्य दुर्घटः । न टेकस्माध्यवच्छेदः सर्वस्मिनुपपद्यते । प्रत्येकानतिरिकं तत् समुदायात्मकं यतः ॥ १४ ॥ एवं व्यादिपदानां च व्याहताऽपोहवाच्यता । अगोऽपोहे कथं तावद्युक्ता गोशब्दवाच्यता ॥ १५ ॥ अगोत्वमप्रसक्तं हि प्रसक्तं तु व्यपोह्यते । अगोरपोहः शब्दार्थो गोरन्योऽनन्य एव वा ॥ १६ ॥ अन्यस्तस्यैव धर्मश्चेत् गमनादेरनन्वयात् । गौर्गच्छतीत्यादि वाक्यं व्याहतार्थ तदा भवेत् ॥ १७ ॥ अनन्यश्चेत् कोनु लाभः प्राप्तोऽपोहार्थकल्पनात् ।
अत्र सौगताः।
सत्यं निमित्तसापेक्षाः प्रवर्तन्तां गिरोऽखिलाः। किंतु तेषां निमित्तानां तात्त्विकत्वमसाधनम् ॥ १८ ॥ अन्तर्मात्रासमारूढवासनाबलसम्भवः । निमित्तमेषां विषयो धीध्वनीनां न चेतरः ॥१९॥ निमित्तं न घटेतापि व्यवहारेषु तात्त्विकम् । यतः खलक्षणादीनां तत्त्वतो न पदार्थता ॥ २०॥ व्यवहाराय सङ्केतो व्यवहारक्षणेऽसति । खलक्षणेऽननुगते क्रियमाणो निरर्थकः ॥ २१॥ खलक्षणानां व्यक्तीनां परस्परमनन्वयात् । देशकालादिभेदेन भिन्नभिन्नात्मनां कथम् ॥ २२ ॥ नियमेन भवेद्योगः सङ्केतव्यवहारयोः । देशकालायनुगतो मेर्वादियः परैर्मतः ॥ २३ ॥ क्षणिकाणुसमूहोऽयमिति प्राज्ञैः समर्थितः । व्यक्त्याकृत्योः पदार्थत्वमेतेनैव निराकृतम् ॥ २४ ॥