________________
३८
समवायाख्यसम्बन्धकल्पनाऽपि च दुर्घटा। प्रवर्तते कुण्डदधोरिहेदमिति धीर्यथा ॥२॥ न तथा तन्तुपटयोः कुतः सम्बन्धकल्पना। आधाराधेयबुद्धया हि सम्बन्धः स समर्थ्यते ॥३॥ प्रत्युत प्रतिकूलैव लौकिकी धीः प्रवर्तते । वृक्षे शाखाः शिलाः शैले द्वाराणि सदनेविति ॥ ४ ॥ अनयाऽवयवानां हि गम्यताधेयता परम् ॥५॥ सम्बन्धिष्वप्यनित्येषु नानाभूतेषु सत्खपि । हन्त नित्यैकसंसर्गकल्पनायां कुकौशलम् ॥ ६ ॥ नित्यैकसमवायेऽस्मिन् सदा सर्वत्र संस्थिते । रूप्यरूप्यादिधीभेदव्यवस्था दुर्घटैव हि ॥ ७ ॥
भावानां शब्दार्थत्ववादिनः। शब्दार्थ- 1 ननु द्रव्यादयो न स्युस्तत्त्वतो यापाधयः । परीक्षा।
दण्डी नीलोऽयमित्याद्याः प्रवर्तेरन् कथं गिरः ॥ १॥ निमित्तनिरपेक्षा हि न प्रवृत्तिगिरां क्वचित् । शब्दार्थस्य व्यवस्थिरी यदपोहानुधावनम् ॥ २ ॥ भावेषु द्वेषमेषां तु प्रकाशयति केवलम् । लोके खरसतः सिद्धा ननु भावे गिरां गतिः ॥ ३ ॥ श्रुते गवादिशब्द हि भावः स्फुरति चेतसि ।
निषेधस्तु न कस्यापि, शाब्दोऽपोहः कथं भवेत् ॥ ४ ॥ 2 अगोनिवृत्तिः शब्दार्थो यदि गौः केन गम्यताम् ।
गोशब्दं शृण्वतः पूर्वमगौः स्फुरतु चेतसि ॥५॥ यनिवृत्तिरपोहोऽयं गोशब्दार्थतयेष्यते । अपोहो यो गिरामर्थः पर्युदासात्मकः स चेत् ॥ ६॥ नामान्तरेण वाच्यत्वं सामान्ये खीकृतं भवेत् । यदेव गोस्वं सामान्यमगोऽपोहः स एव हि ॥७॥ अभावः खलु भावोऽन्यो गोमेदो योऽश्व एव सः । प्रसज्यप्रतिषेधश्चेदपोहोऽर्थः कथं गिराम् ॥ ८॥ शून्यात्मनो निषेधस्य वाच्यता न घटेत हि । बायार्थस्य पदार्थत्वनिषेधे पर्यवस्यति ॥९॥ पदजन्योपस्थितीनां खात्मांशप्राहिता भवेत् । तथासति तु वाच्यत्वं मुषाऽपोहस्य कम्प्यते ॥१०॥
(भामहः ।)
(कुमारिलः।)