________________
किंतु सङ्केतसम्भूतसंस्काराहितसंस्मृतः । सा हि व्यवहिता स्मार्ती तस्मात् सा कल्पनैव हि ॥४॥ प्रत्यक्ष कल्पनापोडं विकल्पाः कल्पनात्मकाः। चक्षुषा स्पृष्टमात्रं तु निर्विकल्पं हि गृह्यते ॥५॥ न चागृहीतसङ्केतः पिण्डमेकं विलोकयन् । नाना जात्याऽपि तं वेत्ति, तत् सामान्यं न चाक्षुषम् ॥ ६॥ धियोऽप्यनुगतत्वं यत् न जाति समपेक्षते । धीः पाचकोऽयमिति या न सा जात्याऽनुगामिनी ॥७॥ न वा क्रियाविशेषेण यतो नानुगतो हि सः। सङ्केतानापरं किञ्चिनिमित्तं तत्र दृश्यते ॥ ८॥ यान्यन्यान्यनुमानानि दर्शितानि परैरिह । अनयैव दिशा तेषां ज्ञेयो निरसनक्रमः ॥ ९ ॥ आश्रयाश्रयिभावोऽपि व्यक्तिजात्योर्न सिध्यति । पतनप्रतिरोधेन कुण्डो हि बदराश्रयः ॥ १० ॥ अपतिष्णोरमूर्तस्य सामान्यस्य किमाश्रयैः । खभावप्रच्यवाशङ्का न स्यात् नित्येऽप्यनाश्रये । ययाऽऽश्रयव्यपेक्षा स्यात् खभावस्यापरिच्युतौ । अप्रच्युतखभावं तु परैर्नित्यं तदिष्यते ॥ ११ ॥ पिण्डेषु जायमानेषु तेषु तेषु तदा तदा। नित्यं तदेकं सामान्य सम्बनाति कथं वद ॥ १२ ॥ क स्थितं कुत आयातममूर्तमिदमक्रियम् । अथ पिण्डप्रदेशेषु व्याप्तं प्रागेव तद्यदि ॥ १३ ॥ विभुत्वमभ्युपेयं स्यात् तद्वादोऽयमसङ्गतः ॥ १४ ॥ नित्यद्रव्येष्वपास्तेषु विशेषाणां क सम्भवः । तेषु सत्खपि तेषां तु सिद्धिर्न स्यात् कथञ्चन ॥ १ ॥ व्यावर्तका विशेषाश्चेत्कल्प्यन्ते परमाणुषु । ते विशेषाः कैर्विशेषैर्ध्यावर्यन्ते मिथोऽपरैः ॥२॥ व्यावृत्ताश्चेत्ततस्तर्हि किं न वाच्यास्तथाऽणवः । तस्मादन्या विशेषाः स्युरित्येतदुर्वचं वचः ॥ ३ ॥ निरस्तः समवायोऽपि द्रव्यादीनां निरासतः । सम्बन्धिषु निरस्तेषु सम्बन्धस्स क सम्भवः ॥१॥
विशेषपरीक्षा।
समवाय. परीक्षा।