________________
गुणपरीक्षा।
आश्रये निहते द्रव्ये हत एवं गुणोऽपि सः । बाधकं चापरं तत्र दियात्रेण निरूप्यते ॥ १॥ समवेतं घटे स्थूल यद्येकं रूपमिष्यते । अंशतस्तु घटे दृष्ट रूपमीक्ष्येत सर्वतः ॥ २॥ अनशे न समाधिः स्यादंशभेदव्यवस्थया । आश्रयस्येव तस्यापि सांशवे द्रव्यमेव तत् ॥ ३ ॥ आपत्तिरेषाऽनिष्टस्य त्रिषु बोध्या रसादिषु । विष्फारितेक्षणेनापि पश्यता पुरतः स्थितम् ॥ ४ ॥ दृश्यते नैव नीलादेरन्यत्सङ्ख्यादि किश्चन । सङ्केताहितसंस्कारवैचित्र्यादेव केवलात् ॥ ५॥ एको महान् दीर्घ इति व्यवहारः प्रवर्तते।। अपेक्षाबुद्धिमेवायं द्वित्वादौ शरणं श्रयन् ॥६॥ बुद्धिवैचित्र्यतोऽन्यत् किं कार्य द्वित्वादि पश्यति । गुणादावपि सङ्ख्यादिव्यवहारे समे सति ॥ ७॥ द्रव्यमाने तु तत्सत्तावीकृतिर्विषमैव ते । आश्रयस्थैव चेत् सङ्ख्या गुणादाववभासते ॥ ८॥ एकस्यानेकविज्ञाने कस्य सङ्ख्याऽवभासते। निरासोऽनेन सम्पनः परिमाणपृथक्त्वयोः ॥ ९॥ संयोगादिनिरासस्तु सुधीभिरुपदर्शितः । अन्तःपातं निबन्धस्य कुर्वतां सुगमस्तु सः ॥१०॥ अवकाशो न तस्यास्मिन् सङ्ग्रहस्यापि सङ्ग्रहे । भावानां क्षणभजित्वात् कर्म क्वापि न संभवेत् । नहि जन्मक्षणे कर्म न द्वितीयः स्थितिक्षणः ॥१॥ वियोज्य देशादकस्मात्संयोजयति या परम् । सा क्रिया गमनं सा हि स्थिरमेकमपेक्षते ॥ २ ॥ स्थिराणामेकरूपाणां कथं स्यात्कार्यकारिता। अनेकानुगतं नित्यं सामान्यं यत्तु कल्प्यते । अपास्त्रप्रायमेवैतदाश्रयाणां निरासतः ॥१॥ प्रमाणं यत्परैस्तत्र व्याहृतं तमिरस्यते । जातिः प्रत्यक्षगम्येति भ्रान्तानां खलु भाषितम् ॥१॥ या नाम जात्युपहिता गौरवोऽयमितीह धीः । न सा चवःसम्प्रयोगसमनन्तरभाविनी ॥३॥
कर्मपरीक्षा।
सामान्यपरीक्षा।