________________
3
आकृष्टे निगडाबद्धे निगडो नहि दूरगः । क्षणिकेषु तु भावेषु नैव चोद्यमिदं समम् ॥ १९ ॥ क्षितिबीजजलादीनां क्षणिकानां हि सन्ततौ । भावेभ्यः पूर्वपूर्वेभ्योऽप्यविशिष्टेभ्य एव तु ॥ २० ॥ जायमानेषु भावेषु विशिष्टा एव केचन । अङ्कुरोत्पादने शक्ता जायन्ते प्रकृतिस्तु सा ॥ २१ ॥ एकक्रियासमर्थत्वान्मिथस्ते सहकारिणः ॥ २२ ॥ 2 सुघटः क्षणभङ्गोऽयं नाशकस्यानपेक्षणात् ।
प्रतिषेधात्मको नाशो ह्यवस्तुत्वादहेतुकः ॥ २३ ॥ भावात्मकस्य नाशस्य कोऽन्यो हेतुरपेक्ष्यते । क्षणान्तरस्थित्यनर्हाः सर्वे भावाः खहेतुतः ॥ २४ ॥ जायन्ते तत्पदार्थानामुच्यते क्षणभङ्गता । 3 क्षणान्तरस्थित्यनर्ह स्वभावे भाव एव तु ॥ २५ ॥ भेदमनपेक्ष्यैव प्रकृतिप्रत्ययार्थयोः ।
प्रवर्तते हि सङ्केतात् शब्दः क्षणिक इत्ययम् ॥ २६ ॥
एतेनास्मिन्नसावस्ति क्षणस्तु क्षयलक्षणः । इत्यसत्यर्थभेदेऽपि शब्दः क्षणिक इत्ययम् ॥ २७ ॥ प्रवर्तेत कथं वेति शङ्का सेयं पराहता । प्रत्यक्षादिविरोधोऽपि ननु भ्रान्त्यैव भाव्यते ॥ २८ ॥ यत्तु तत्प्रत्यभिज्ञानं विकल्पैः कल्पनान्वितम् । भ्रान्तिमात्रं चार्थभेदाद्दीपज्वालैक्यबुद्धिवत् ॥ २९ ॥ कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणम् । नान्वेति प्रत्यभिज्ञाने तन प्रत्यक्षबाधितम् ॥ ३० ॥ तथाच सिद्धं वस्तूनां क्षणिकत्वमबाधितम् । चिरानुवर्तितायां तु व्योमतामरसादिवत् ॥ ३१ ॥ अर्थक्रियाखसामर्थ्यादवस्तुत्वं प्रसज्यते ।
अथ कुमारिलादयः ।
कर्मतत्फलस- 1 ननुचेत् क्षणिका भावाः कर्ता भोक्ता च दुर्घटः । म्वन्धपरीक्षा ।
न त्वन्यस्योपभोगाय परः कर्म समाचरेत् ॥ १ ॥
स्वात लोकविरुद्धौ च कृतनाशाकृतागमौ ।
2 कार्यकारणभावश्च कथं क्षणिकवस्तुनोः ॥ २ ॥