________________
अहेतुकस्य नाशल
तथा सति हि कार्याणां सर्वतः सम्भवो भवेद
3 किन क्षणिक इत्यंत्र कोऽयमर्थोऽभिमन्यते । क्षणोऽस्यास्तीति मत्वर्थः क्षणभङ्गे न युज्यते ॥ ५ ॥ सोऽस्यास्तीत्ययमर्यो हि क्षणभेदमपेक्षते ।
अत्र सौगताः ।
इदं तु साहसं यत्तचित्यं व्योमादि वस्त्विति ॥ ६॥ अर्थक्रियासमर्थ हि वस्तु, नान्यदतद्विधम् । न च नित्यस्य सामर्थ्यं सदा कार्यप्रसङ्गतः ॥ ७ ॥ सहकारिव्यपेक्षायां नित्यता नैव युज्यते । अपूर्वातिशयाधानाद्यत्स्याद्यस्योपकारकम् ॥ ८ ॥ तत्तस्य सहकारि स्यात्तथा चानित्यता स्थिता । अपूर्वातिशयप्राप्तौ प्राभूपं खलु हीयते ॥ ९ ॥ ननु सत्यमपूर्वोऽयं तावतिशयो भवन् । हेतुखरूपाद्भिन्नत्वात् न रुन्ध्याद्धेतुनित्यताम् ॥ १० ॥ हन्त तर्हि ततो मित्रो योऽसावतिशयः श्रितः । अन्वयव्यतिरेकाभ्यां युक्ता तस्यैव हेतुता ॥ ११ ॥ ननु नाहेतुता तस्य तदीयोऽतिशयो ह्ययम् । यस्यातिशयकार्य यत् तत्स्यात् कार्य न तस्य किम् ॥ १२ ॥ सत्यं तदीयता सिद्धौ स्थादेतत्सा तु दुर्घटा । तादात्म्यं वा तदुत्पत्तिः कः सम्बन्ध इहोच्यताम् ॥ १३ ॥
ततो भेदान्न तादात्म्यमुत्पत्ति बेद्दिशोतया । ariveerः स्यात्वा निलस्य सजिवेः ॥ १४ ॥
सहकारिव्यपेक्षायां प्रसजेदनवस्थितिः । ननु हेतोर्नोपकारः सहकारिभिरिष्यते ॥ १५ ॥ सहैव कार्य कुर्वन्ति ततस्ते सहकारिणः । सा तस्य प्रकृतिर्हेतोः कारणान्तरसनिषैौ ॥ १६ ॥ कार्याधापकता येयं, तमेव सहकारिणाम् । ननु सा कृतिर्नित्ये कादाचित्की कथं भवेत् ॥ १७ ॥ साकल्य इव मैकल्ये सा निसानपायिनी ।
गहरा
१०.