________________
जन्मक्षणाव्यवहितक्षण एवं विनश्यतः । कनु स्थितिक्षणो येन कुर्यात् कार्य कचित् स्थितः ॥१॥
स्थित्वा हि कारणं सर्व कार्यमाधातुमर्हति । 3 किच कार्य जनयति व्यापत्यैव हि कारणम् ॥ ४ ॥
क्षणभरपक्षे तु व्यापारस्य व सम्भवः ।
व्यापारार्थ स्थितौ तस्य क्षणिकत्वं पराहतम् ॥ ५ ॥ 4 बन्धमोक्षम्यवस्थाऽपि क्षणिकत्वे न युज्यते । य एव बद्धो मुच्येत स चेयुज्येत सा तदा ॥ ६ ॥
अत्र सौगताः। 1 कर्तुरेव तु भोकृत्वं वस्तुतो नैव वर्तते ।
खकृतस्य फलं भुत इति वादस्तु लौकिकः ॥ ७॥ एकसन्तानसम्बन्धनैयत्येन प्रवर्तते। एतेन दोषौ प्रत्यस्तौ कृतनाशाकृतागमौ ॥ ८ ॥
न कारणं कार्यहीनं कार्य वा न ह्यकारणम् । 2 कार्यकारणभावश्च युक्तः क्षणिकयोरपि ॥९॥
न ब्रूमो वयमुत्पत्ति नष्टाद्वा नच भविनः । किन्तु हेतोर्वर्तमानात्, क्षणिकः किंन वर्तते ॥१०॥ स्थितिक्षणः स किं न स्याद्वस्तुनो यो जनिक्षणः । किच्च नापेक्ष्यते हेतोः कार्योत्पत्तिक्षणे स्थितिः ॥११॥
किन्तु कार्याव्यवहितप्राक्क्षणेऽपेक्ष्यते स्थितिः । 3 यश्चानन्तर्यनियमः कार्ये कारणवस्तुनः ॥ १२ ॥
सैव कार्यसमुत्पादे कारणापेक्षिता मता। सत्तातो व्यापृतिर्नान्या कारणे कार्यसाधिका ॥ १३ ॥ नह्यकुरादौ बीजादेर्व्यापारः कोऽपि दृश्यते। य एव बद्धो मुक्तः स इति लोकस्य कल्पना ॥ १४ ॥ अप्रकम्प्यं हि भावानां क्षणिकत्वं समर्थितम् । पूर्वपूर्वप्रत्ययकक्षणिकज्ञानसन्ततेः। रागादिमलसंश्लेषो बन्धो मुक्तिस्तदत्ययः ॥ १५ ॥ खखप्रत्ययजन्यत्वात्तयो३वाव्यवस्थितिः। स्मृतिसंस्कारयोर्बोच्या व्यवस्थाऽप्यनया दिशा ॥१६॥ परैः क्षणिकवादेऽस्मिन् यत्किश्चिद्यच शहितम् । सुधीमिखत्तदखिलं विखरे सुसमाहितम् ॥ १७॥