________________
१८
प्राप्तेति न समीहितार्थलाभः । सारूप्यापादकतालक्षणं प्राहकत्वमन्ततो भाऊमेवेति न मुख्यमपि । बाह्यार्थवादिनाऽप्येवं प्राढ्यतानिर्वाहाय विज्ञानसाकारत्वे आश्रयणीये विज्ञानाकारवैचित्र्येणैव प्रमाणप्रमेयविभागनिर्वाहे कृतं बाह्येनार्थेन । अनाश्रित्य विज्ञानस्य साकारतां बाह्यार्थस्य प्रात्यत्ववर्णनं सुतरां म घटते । असम्बन्धात् । शानाकारवैचित्र्ये च पूर्वपूर्वविज्ञानगता शक्तिः पूर्वपूर्वविज्ञानवैचित्र्योद्भावितवासनापरिपाकलक्षणा कारणमिति कादाचित्कत्वोपपत्तिराकारवैचित्र्यस्य । अनादित्वाच्च भवचक्रस्य नान्योन्याश्रयणप्रसङ्गावकाशः । तद्विज्ञानमेव वासनावैचित्र्यान्नीलपीताकारमवभासते । न बाह्यो नीलादिः परमार्थः । सहोपलम्भनियमाच नीलादिराकारो विज्ञानादभिन्नः । तस्मात् - योऽयं नीलाद्यवभासः स विज्ञानावभास एव । ननु कथमेतत् ?, ग्राहकेण हि प्रायादन्येन भाव्यम् । तत्संवित्तावसंवित्तेः । मैतत् । अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिद्ध्यति । अनुभवो ग्राहको न प्रकाशते ग्राह्यस्तु केवलं प्रकाशत इति विप्रतिषिद्धं वचनम् । ग्राह्यस्य प्रकाशो ह्यनुभव एव स चायमजडात्मा न प्रकाशत इति व्याहतं वचः । जडस्य त्वर्थप्रकाशकता नैवोपपद्यते । तस्मात् - अयं नील इत्यादिजाप्रद्विज्ञानं स्वान विज्ञानवत् स्वावभासमात्रम् । बहिर्वदवभासस्तु वासनाविपर्ययकृतो भ्रम एव । ननु - अनेनेदमुक्तं भवति - विज्ञानं ग्राहकान्तरनिरपेक्षं प्राह्यान्तरनिरपेक्षं स्वात्मानं स्वस्मादभिन्नमाकारं च गृह्णातीति । इदं चानुपपन्नम् - एकस्यैव कर्तृकर्मक्रियात्मतानुपपत्तेः । सत्यम् । न वयमात्मसंवेदनतां प्राप्राहक भावलक्षणां ब्रूमः । किंतु —
"विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इयमेवात्मसंवित्तिरस्य याऽजडरूपता ॥ क्रियाकारकभावेन न स्वसंवित्तिरस्य तु । एकस्यानंशरूपस्य वैरूप्यानुपपत्तितः ॥ तदस्य बोधरूपत्वाद्युक्तं तावत्खवेदनम् ।” [ ५५९ ]
प्रकृत्या प्रकाशात्मतया नभस्तलवर्त्यलोकवद्विज्ञानं समुत्पद्यते खप्रत्ययेभ्यः । एतत्खभावतैवास्याः स्वसंवेदनता सेयं विज्ञप्तिः । स्वानन्यनीलाद्याकारा च पूर्वपूर्ववासनापरिपाकात्समुपजायते इति तैवाकारैरुपलक्षिता प्रकाशमाना स्वसंवेदनरूपैव । इयांस्तु विशेषः -- ये पुनरेते नीलाद्याकारा अपरमार्था नाम ते, अनाद्यविद्यामूलबासना परिपाककल्पितस्वात् । तत् अभूतानामेषां संवेदनकर्मत्वस्य सुतरां न प्रसङ्गः। “अभूतमाकारं बेत्तीति व्यपदिश्यते विभ्रमात्, नहि तत्त्वेन वेत्ति, निर्विषयं हि तत्” । [ ५७३ ] उकं च
“अभूतकनकाकाशशुद्धिबद्बुद्धिरिष्यते ।” इति [ ५७२ ]
तथाच प्राह्यग्राहकभावरहिता नभस्तलवर्त्यलोकवत्केवलं प्रकाशस्वभावतया स्वसंवेदनस्वभावा विशप्तिरिति नैकस्य कर्तृकर्मक्रियात्मताप्रसङ्गः । ननु तर्हि प्राप्राहकभावरहिततया निःस्वभावतया शून्यताप्रसङ्गः । स्यानामैवंरूपा शून्यता । हन्त माध्यमिकाभिमतः सर्वशून्यवाद एवादृतः स्यात् । यत् विज्ञानमपि निःखभावं शून्यमिति पर्यवसितम् । नैतत् । असत्यपि लोकतोऽवगते ग्राह्यग्राहकस्वभावे यः स्वसंवेदनलक्षणो विज्ञानस्वभावः प्रकाशलक्षण: "इयमेवात्मसंवित्तिस्तस्य ग्राऽजडरूपते” त्युक्तः, स त्मस्त्येवेति न सर्वात्मना नैरात्म्यमिति न सर्वात्मना शून्यता । येनादृतो विज्ञानपक्षः परित्यो भवेत् । अयमपि खसंवेदनस्वभावो नेति तु माध्यमिकाप्रेसरः । तथाच बोधिचर्यावतारपश्चिकायां विज्ञानवादनिरसनप्रकरणे- " न पुनरस्माभिः कर्मकर्तृक्रियाभेदेन ज्ञानस्यात्मप्रकाशनमिष्यते, एकस्म