________________
प्रतिपक्षनिरसन इव न खसमयप्रक्रियावबोधनसमादरो दृश्यते । न हि स्कन्धायतनादयः प्रतीलसमुत्पादा निरूपिताः। न वा प्रतीत्यसमुत्पादताप्रकारः। न वा चित्तचैत्तविभागः। न वा निःश्रेयसमार्गप्रक्रिया । तदस्य निबन्धस्य ये साक्षाद्विरोधिनः प्रकृत्यादिवादाः कापिलादयस्खभिरसन एव परमं तासमिति निधीयते । अत एवायं परैः सह तत्र तत्र विवदन् वैभाषिकसौत्रान्तिकादीनात्मीयेषु गणमन प्रतिवदति । तथाहि लोकायतपरीक्षायाम्
'ये चेह सुधियः प्राहुरप्रतिष्ठितनिर्वृतीन् । जिनांस्तद्याननिष्ठत्वं यानयोष प्रचक्षते ॥ तान्प्रत्ययमसिद्धश्च' इति [५३९] । अयं च माध्यमिकानुवादः । तथा श्रुतिपरीक्षायाम्'प्रतिसङ्ग्यानिरोधादेः प्रसिद्धा सांकृतत्वतः' इति [७३०] । इदं च सौत्रान्तिकनयाश्रयणेन । 'न च नाशात्मकाविष्टौ निरोधौ सास्रवैर्यतः । ......प्लवन्तेऽलीकमानिनः' इति [७३०]
इदं च वैभाषिकमताश्रयणेन । स्थिरभावपरीक्षायां व्याख्यातुरिदं वचनम्-'अतोऽस्यामेव स्विरमावपरीक्षायां सकलशास्त्रार्थपरिसमाप्तिर्भवतीत्युक्तं भवति' इति [१३१] । अनेन वचनेन अस्य शानस्य प्रकृत्यादिवादलक्षणपरमतनिरसन एव परमं हार्दमिति स्पष्टं गम्यते । क्षणभङ्गप्रसाधनेनैव पराभिमताः प्रकृत्यादिवादाः परास्ता भवन्ति । परमतप्रकृत्यादिनिरसनमेव अनेन शास्त्रेण चिकीर्षितमिति हि तदाशयः । निबन्धशरीरं सर्वतो विमृश्य पश्यतां स्पष्टं विज्ञायेत परमतनिरसनलक्षणवादैकपरता। परमतनिरसनशेषतया तु खमतमपि क्वचित्त्वचिद्गम्यते । अनया शैल्या तु विज्ञानवाद एवेह प्रस्तुत इति ।
अभिज्ञाः कतिचन निबन्धकारमिमं खातत्रिकमाध्यमिकमाचक्षते । स्यादेवम् । किन्तु निबन्धोऽयं खातन्त्रिकमाध्यमिकमतमवलम्ब्य प्रवृत्त इति तदा निश्चेतुं शक्नुमो यदा खातन्त्रिकमाध्यमिकप्रक्रिया प्रकाशकखभावविज्ञानमात्रपारमार्थ्यवादमनुसरतीत्येतदवगच्छेम । प्रक्रियाप्रदर्शकप्रकरणग्रन्थस्तु न कश्चिदुपलब्धः । प्रकाशैकलक्षणविज्ञानपारमार्थ्यवादादि यदिहोदितं तद्योगाचाराणामविप्रतीपम् । माध्यमिकयोगाचारोयं शान्तरक्षित इति परे । य एव खातन्त्रिकमाध्यमिकास्त एव माध्यमिकयोगाचारा इत्यपि व्यवहियन्ते उतान्ये ? । नागार्जुनस्य भूयसा प्रसझापत्तिमुखेनैव परमताद्विनिवर्ल्स खमतमवगमयतो लेशतोऽपि सरणिमनुल्लङ्घमाना आचार्यबुद्धपलितचन्द्रकीर्तिप्रमृत्तयः प्रासनिकमाध्यमिकाः प्रयन्ते । ये तु भावविवेकप्रभृतयो मध्यमकमार्गमुपगता अपि तर्ककौशलामिमानप्रहप्रस्तहृदयाः खातब्येण प्रयोगमेव पुरस्कृत्य प्रतिवादिनिरसने प्रवृत्तास्त एते खातनिकमाध्यमिकाः । किमन्य एव केचित् क्रमादंशतः परिगृहीतयोगाचारप्रक्रिया माध्यमिकयोगाचारा इति व्यवहियन्ते । का वा तेषामसाधारणी प्रक्रियाऽस्मितिबन्धे ? । नैकाऽत्र नः प्रतिभाति । तदत्र निर्णयपदे प्रक्रियामिज्ञाः प्रमाणम् ।
सौगते समये तावन्मतिभेदो महान्मिथः । तत्तन्मतानुसारेण निबन्धा विविधाः स्थिताः॥ तेषामिह प्रचारस्तु लेशतोऽपि न विद्यते । वैभाषिकादयो ये तु चत्वारः प्रथिता इह ॥ तेषां निबन्धा अप्यद्य दुर्लभा एव नः खलु । प्रलुप्ता बहवः केचित्प्रतिकृत्यात्तजीवनाः ॥ द्वित्राणि यानि लभ्यानि दुर्लभान्यपि तानि नः । कचियदि स्यात्स्खलनं पण्डितैः प्रतिबोध्यताम् ॥