________________
१५
विभाव्यते" इति । एवं च कृत्वा प्रज्ञापारमितापाठः सुनीतो भवति -- “ विज्ञानं विज्ञानस्वभावेन शून्यं लक्षणशून्यतामुपादाये 'ति । तत्रैवोत्तरत्र -
“विज्ञप्तिमात्रतासिद्धिर्धीमद्भिर्विमलीकृता । अस्माभिस्तद्दिशा यातं परमार्थविनिश्वये ॥” इति मूलम् । [५८२]
सर्वज्ञपरीक्षायाम्
" एतच सर्व बाह्यार्थसम्भवे चोद्यमवतरति विज्ञानवादनये तु दूरीकृतावकाशमेतत्” इति । [ ५६५ ] तत्रैव
“निराकारादिचिन्ता तु सर्वज्ञे नोपयुज्यते । यथा हि भवतां ज्ञानं क्वचिदर्थे तथा परम् ॥” इति मूलम् [९३५] अस्य च व्याख्यानम्—“येयमस्माभिर्विज्ञानवादस्थितैर्निराकारचिन्ताऽकारि” इति । [९३६ ]
--
तेष्वेषु वचनेषु यदेतद्वचनमौपनिषदपरीक्षायां खल्पापराधमित्यादि तद्व्यक्तमवगमयति विज्ञानवादम् । यदिदं वचनं लोकायतपरीक्षायाम् - 'मम तु युक्तं विज्ञानमात्रवादिन' इति, तन्न कस्याप्यनुवादरूपतया प्रवृत्तं येनास्य परहार्दपरता सम्भाव्येत । किन्तु लोकायतमतप्रतिक्षेपात्प्रवृत्तं ममेत्यपरोक्ष निर्देशगर्म गमयति विज्ञानवादे हार्दं निबन्धस्य । अद्वयज्ञानपक्षे त्विति द्वितीयं वचनं तु तदनुबन्धितया तथैव । यच्चेदमपरं वचनम् -' ( वज्ञप्तिमात्रतासिद्धिधमद्भिर्विमलीकृता । अस्माभिस्तद्दिशा यातं परमार्थविनिश्वये ।।' इति, अत्रायमस्माभिरित्यपरोक्षनिर्देशः परमार्थविनिश्चय इति निर्देशश्च विज्ञानवादे हार्द गमयति । विज्ञानमप्यपरमार्थं मायामयमिति माध्यमिकाः । अपाक्रियते च बाह्यार्थस्येव विज्ञानस्यापि शून्यत्वं माध्यमिकाभितम् । “विवादास्पदमारूढं विज्ञानत्वादतो मनः । अद्वयं वैद्यकर्तृत्ववियोगात्प्रतिबिम्बव” दिति वचनेन । विवरणं चास्य - " वैद्यकर्तृत्वद्वयविरहेणाद्वयत्वमिष्टम् नतु सर्वथाऽभावेने" ति । इदमेव समनन्तर श्लोकव्याख्याने -- " कथमद्वयं साध्यत्वेनेष्टम्, किं भासमानस्येत्यादिना प्रन्थसन्दर्भेण दृढीकृतम् — तत्रहि नीलाद्याकारस्य ज्ञानरूपस्य चाभावान्नाद्वयत्वं सिषाधयिषितं चित्तस्य, किन्तु पृथिव्यादेर्घाह्यलक्षणस्याभावात् तत एव प्राह्यलक्षणसापेक्षस्य ग्राहकस्याप्यभावात् ग्राह्यग्राहकद्वयरहितत्वमेव ! सिषाधयिषितमद्वितीयत्वं चित्तस्य, अत एव च प्रात्यग्राहकद्वयलक्षणविरहेण विज्ञानस्वभावशून्यता • विज्ञानस्योच्यते नतु सर्वात्मना विज्ञानस्वभावविरहात्, स्वसंवेदनखभावस्यानपायात् । इयमेव तु स्वसंवेद्यता -- खप्रत्ययेभ्यो जडव्यावृत्ततयोत्पत्तिः । माध्यमिका हीदृशमपि खभावं न मन्यन्ते । अतः शून्यं चित्तमाचक्षते बाह्यवत् । बोधिचर्यावतारपश्चिकायां प्रपश्चितमेतत् । प्रसन्ने निरूपयिष्यामश्चानुपदमिदम् । अत एव चाद्वयमिति निर्देशखारस्यम्, अन्यथा शून्यमित्येव निर्दिश्येत । यानि च वचनानि सर्वशपरीक्षायां तानि विज्ञानवादाश्रयमुखेन सर्वज्ञसाधनाय प्रवृत्तानि विज्ञानवादे हार्दमवगमयन्ति । इदं च वचनमारम्भे- 'एतेन चित्तमात्रात्मक एवेति दर्शयती 'ति [१४] ।
इदमत्र ब्रूमः । अयं हि निबन्धकारो नैरात्म्यबोधनैकान्तां सौगतसमयसरणिं निष्कण्टकी सुखप्रचारामाधातुकामस्तत्र प्रवृद्धान् कापिलादिवादकण्टकान् सुदूरमेकैकशो निरस्यति । वादाचैषामयथावत्प्रतीत्यसमुत्पादावबोधनैकान्ताः स्कन्धधात्वायतनानां यथावस्थितस्वरूपावबोधनपथे कण्टकायन्ते, आत्मवादवेषां नैरात्म्यावबोधनलक्षणे नैःश्रेयसमार्गे, इति साक्षात्प्रतिकूलाः । तत्सौगतसमयं संरक्षता स्वसमगस्वरूपावबोधनमिन प्रतिकूलनिरसनमपि प्रथमं कर्तव्यं नाम । निबन्धे चास्मिंस्तत्र तत्र