________________
समषिगतबुद्धभावाः सतापेष परेषां श्रेयसे निर्वाणाविशेषमबतिष्ठन्ते । उपरतसकळविकल्पानां परार्या उपदेशाः कर्ष स्युरिति नाशपम् । कुलालचक्रभ्रमणन्यायेन पूर्वप्रणिधानवशात्तदुपपत्तेः । बोधिचर्यावतारादिष्वयमों व्याख्यातः। बोध्यर्थ प्रवृत्तस्य महायानमारूढस्य पदेपदे प्रसजतां मूला. पत्तिभेदानां खरूपं, मारभेदानां खरूपं, तत्प्रतिरोधकोपायानां खरूपं, सपदि महायानमारोढुमसमर्थस्य बोधि प्रार्ययमानस्य बोधिप्रणिधिचित्तस्य खरूपं, तस्य साधनप्रकारभेदश्चेत्याद्यनेकमिह वकव्यम् । भनवसरोऽयं विस्तरसेति विरम्यते।
उद्योतकरभट्टाथैः प्रास्तास्तर्कशराः शिताः । मन्ये पतन्त्सनाविध्य शून्यवादवियत्तलम् ॥ विज्ञानवादिनस्त्वेवं मन्यन्तेविज्ञानवादिमत- द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।
सङ्ग्रहः। बाह्योऽर्थः सांवृतं सत्यं चित्तमेकमसांवृतम् ॥ बाह्यरूपतयाऽभाति तचित्तं परमार्थसत् । संवृतिग्राहि किंवाऽन्यद्यदि चित्तं च सांवृतम् ॥ जगदान्ध्यं प्रसज्येत तस्मात्तन्मात्रमिष्यते । तत्तु चित्तं वसंवेद्यं खेनैव खप्रकाशनात् ॥ पूर्वपूर्वप्रत्ययकं प्रतिक्षणविनश्वरम् । निरन्तरसमाबद्धसन्तानक्रमसङ्गतम् ॥ सर्वप्राणिभृतामेतश्चित्तमोजायतेतराम् । तच्च सन्तानभेदेन प्रतिसत्त्वं प्रभिद्यते ॥ व्यपेतकल्पनाजालं निर्मलं विदुषां तु तत् । वासनारूषितं तत्तु कल्पनामिरुपप्लुतम् ॥ आभात्यविदुषामेवं नीलपीतसितात्मना । अनादिचित्तसन्तानमन्यान्यदनुवर्तते ॥ तत्स्यादालयविज्ञानमहङ्कारोपलक्षितम् । यत्तत्प्रवृत्तिविज्ञानं नीलाद्याकारचित्रितम् ॥ तदेतदुभयं चित्ताद्वस्तुतो नातिरिच्यते । वातवेगसमुत्क्षिप्तास्तरङ्गा इव तोयधेः॥ अस्मादालयविज्ञानाद्वासनापरिपाकतः । इदं प्रवृत्तिविज्ञानं मानाकार प्रजायते ॥
उकंच लावतारसूत्रे-[५०] "ओपान्तरजलस्थानीयादालयविज्ञानात् प्रवृत्तिविज्ञानतरङ्ग उत्पद्यते।" तत्रैव । [१] "तरणा युदधैर्यद्वत्पवनप्रत्ययेरिताः । नृत्यमानाः प्रवर्तन्ते विच्छेदश्च न विद्यते ॥ आलयोधस्तथा नित्यं विषयपवनेरितः। चित्रैस्तरङ्गविज्ञानैर्नृत्यमानः प्रवर्तते । नीले रक्तेऽथ लवणे शङ्के क्षीरे च शार्करे ।......॥ नचान्ये न च नानन्ये तरङ्गा धुदधेर्मताः । विज्ञानानि तथा सप्त चित्तेन सह संयुताः॥ उदधेः परिणामोऽसौ तरशाणां विचित्रता। आलयं हि तथा चित्तं विज्ञानाख्यं प्रवर्तते ॥" इति। आभ्यन्तरं चित्तमेव नीलायाकारयोगतः। भूत्वा प्रवृत्तिविज्ञानं व्यवहाराय कल्पते ॥ तस्मादाभ्यन्तरा एव नीलपीतसितादयः । बाया इवावभासन्ते खधीभ्योऽन्ये न चैव ते ॥ उकंचाचार्यधर्मकीर्तिना"सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दश्यतेन्दाविषाद्वये ॥" "यदन्तयितत्त्वं तदहिर्वदवभासते" इति ।
[सर्वदर्शन० १३]