________________
"नि बोषिचित्तो यः कल्याणमित्रं पुरुषः समस्खयत्वदुःखैदुःखी निःशेषमविवाधिदुःसोन्मूलनं कुर्वस्तदुपायभूतामनुत्तरी सम्यक्सम्बोधि प्रातुमाहितचित्तखदुपायभूतपुण्यसम्भारखानसम्भारसम्पादनाय दानपारमितादिकं सेवते । दानादिपारमिताखरूपविवेकः शिक्षासमुच्चये प्रपचितः। प्रायोपसंस्कृतमेव तु दानादिपारमितापदमर्हति, निर्वाणसाधनपरिकरतां च। विना प्रशया कृतं तु दानादि केवलं लोकगतावेवोपयुज्येत । प्रज्ञोपसंस्कृतैस्तु तैः प्रज्ञापारमिता क्रमेण प्रचयमुपगच्छन्ती परिनिष्पद्यते । उक्तंच बोधिचर्यावतारपश्चिकायाम्-‘एवमेते दानादयः संस्कृत्य सम्मृता अपि प्रज्ञामन्तरेण सौगतपदाधिगमहेतवो न भवन्ति । नापि पारमिताव्यपदेशं लभन्ते । प्रज्ञाकृतपरिशुद्धिभाजः पुनरव्याहतोदारप्रवृत्तितया तदनुकूलमनुवर्तमानास्तद्धेतुभावमधिगच्छन्ति । पारमितानामधेयं च लभन्ते' इति । सेयं दानपारमितादिपरिकरोपेता प्रज्ञापारमिता महायानम् । इमामारूढो बोधिचित्तो महायानमारूढो माहायानिकः । यदयं सकलसत्त्वदुःखोन्मूलनाय बोधौ चित्तमाधाय प्रज्ञापारमिता सर्वसत्त्वसन्तरणनौकामाश्रयते। ये पुनः परिमितसम्भाराः कृपाविरहात् केवलं खदुःखोपशमनाय प्रवृत्ताखेषां यद्यानं श्रावकयानप्रत्येकबुद्धयानभेदेन द्विविधं तदेतदृष्टया हीनं यानम् । एते पुनः करुणैकमित्राः प्राप्य प्रज्ञापारमिता सपरिकरामधिगतबोधिसत्त्वपदाः परदुःखोच्छेदनत एव प्रमुदिताः समधिगतबुद्धभावा नापरं निर्वाणमाकांक्षन्ते माहायानिकाः । उदाहृतं चात्र वचनं शान्तिदेवेन'मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः। तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥' इति ।
[बोधिच० ३४१] सति हि खपरभेदे परदुःखापनोदनात् खदुःखापनोदनस्य प्रथमतः प्राप्तिः । तत्त्वदृष्टौ तु नायं विभेदः
"सन्तानः समुदायश्च पतिसेनादिवन्मृषा । यस्य दुःखं स नास्त्यस्मात् कस्य दुःखं भविष्यति ॥ अखामिकानि दुःखानि सर्वाण्येवाविशेषतः । दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥"
__ [बोधिच० ३३४॥३३६] "अहमेव तदापीति मिथ्येयं परिकल्पना । अन्य एव मृतो यस्मादन्य एव प्रजायते ॥ यदि यस्यैव यहुःखं रक्ष्यं तस्यैव तन्मतम् । पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते ॥"
_[बोधिच० ३३२॥३३३] "तदुःखेन न मे बाधेत्यतो यदि न रक्ष्यते । नागामिकाय दुःखान्मे बाधेत्येवं विचिन्त्यताम् ॥"
[बो० ३३१] "यदा खस्स परेषां च भयं दुःखं च न प्रियम् । तदाऽत्मनः को विशेषो यत्तं रक्षति नेतरम् ॥"
[बो० ३३०] नयेते परखुःखोन्मूलनाय संसारमधितिष्ठन्तोऽपि संसारदोषैर्लिप्यन्ते । शून्यतादर्शनलक्षणप्रसापारमितानिष्ठा येते । शून्यतां भावयतां क कुतो लेपः । अप्रतिनिष्ठितनिर्वाणता तु शून्यतायाः फलम् । सर्वतः समुत्तुहं निर्वाणसौधमधिरूढा नामैते ये बोधिचित्तेष्वपि समतिलय मारान् समतिलाय च सदामाम्यनागामिपदनिपातं प्राप्य बोधिसत्त्वपदं सम्यक्सम्बुद्धिसमुन्मूलितनिखिलविकल्पजालाः