________________
११
"व्यवहारमनाश्रिय परमार्थो न देश्यते। परमार्थमनागम्य निर्वाणं नाधिगम्यते" [बोधि०प० १६५]
अनूदितं च बोधिचर्यावतारपश्चिकायाम् [३२]
"उपायभूतं व्यवहारसलं उपेयभूतं परमार्थसत्यम्" । इति ।
संदतिमपेक्ष्यैव तु परमार्थस्वरूपं कश्चिदुपदेशपदमाविशति । न हीदमित्यमित्यस्योपदेशो भवति, किन्तु नेति नेत्येव । केशोण्डूकादीनि तिमिरोपहतनयनैदृश्यमानान्यतदुपहतनयनैरिवाविद्योपप्लुतचित्तबलिदृश्यमानानि स्कन्धायतनादीन्यतदुपप्लुतेर्बुद्धैनैतानि, नैवंविधानीति प्रतिषिध्यन्ते केवलम् । नैतावता कानिचिद्विहितानि न वा प्रतिषिद्धानि । कल्पितस्य कल्पनात्वज्ञापकमात्रेण कुत्र कि प्रतिषिद्धम् । कि वा वस्तुगल्या प्रतिषेधार्हम् ? । वस्तुतः क्वचित्सतोऽन्यत्र । प्रतिषेधैः प्रतिषेधोऽर्यवान् स्यात् । तत्परमार्थतत्त्वं न प्रकारान्तरेणोपदेशपदं भवितुमर्हति । तथा चानूदितं बोधिचर्यावतारपश्चिकायाम्"अनक्षरस्य धर्मस्य श्रुतिः का देशना च का । श्रूयते देश्यते चार्थः समारोपादनक्षरः" ।
[बोधि० प० ३६५] इदं चात्रानूदितं तत्रैव-'यः पुनः परमार्थः सोऽनमिलप्यः अनाज्ञेयः अपरिशेयः अविशेयः अदेशितः अप्रकाशितः यावदविक्रियः अकारणः यावन लाभो नालाभो न सुखं न दुःखं न यशो नायशो न रूपं नारूपति ।
एतेन इयमपि शङ्का मन्दानामपास्ता । सर्वेषां भावानां शून्यतामुपपादयतः शून्यतया स्वभावेन सर्वे भावाः सखभावाः स्युरिति । न हि शून्यता नाम भावेभ्यो भित्रो धर्मः, येन खभाववत्वमेषामापतेत् । शून्यता तु भाव एव । उक्तं हि प्रज्ञापारमितायाम्-'न रूपशून्यतया रूपं शून्यम् । रूपमेव शून्यम् । शून्यतैव रूपम् । न वेदनाशून्यतया वेदना शून्या । वेदनैव शून्या। शून्यतैव वेदना । न संज्ञाशून्यतया संज्ञा शून्या। संज्ञैव शून्या। शून्यतैव संज्ञा । न संस्कारशून्यतया संस्काराः शून्याः । संस्कारा एव तु शून्याः । शून्यतैव तु संस्काराः । न विज्ञानशून्यतया विज्ञानं शून्यम् । विज्ञानमेव तु शून्यम् । शून्यतैव विज्ञानम्" । इति ।
[बोधि० प० ४१६] भनेन प्रकारेण सर्वशून्यतां पश्यत एव निर्वाणम् । अपुनरुत्पादं दुःखानामुपशमोहि निर्वाणम् । अनुच्छिन्ने दुःखबीजे स न सिद्धयेत् । संक्षेपतः पञ्चोपादानस्कन्धोपादानात्मकस्य जातिव्याधिजरामरणखमावस दुःखस्य सर्वस्य बीजमविद्या हि । साच मायामयेषु भावदृष्टिलक्षणा विपर्यासदृष्टिः प्रणश्यति शून्यतादृष्ट्या । इयमेव प्रज्ञोच्यते । सेयं श्रुतचिन्ताभावनामयी क्रमेणाभ्यासात्प्रवृद्धिमुपगता प्रज्ञापारमितोच्यते । दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताभिरियं कमात्प्रवृत्ता. मिः सुदृढमूला अवशगा च माराणां प्रभवति सकलकल्पनाजालविगताय सम्यक्सम्बुद्धत्वाय । सम्यक्सम्बुद्धत्वमेव तु बुद्धत्वम् । सम्यक्सम्बुद्धत्वाय प्रज्ञापारमितायां प्रवृत्तस्तु न केवलमात्मनो दुःखप्रशमनाय यतते किन्तु सकलप्राणिदुःखप्रशमनाय । यस्तु खदुःखोपशमनाय प्रयतते सतु परिमितसम्भारः । सदस्य लेशतोऽनुवर्तते खपरविभागः । खपरविभागमपश्यंस्तु परदुःखैरपि दुःखी भवेत् । हन्तायमतिदुःखी । किं ततः।। हेयं हि तत् । न । कृपया तु भवदुपादेयम् । यदिदं दुःखापनोदनोपाये प्रवर्तयनपति कल्याणाय । संयोगवियोगप्रभवं तु दुःखं बन्धाय । उकंच बोधिचर्यायाम-[३३०]
"बहूनामेकदुःखेन यदि दुःखं विगच्छति । उत्पाद्यमेव तदुःखं सदयेन परात्मनोः॥" इति ।