________________
१.
... “मरीचिकाजलकल्पानामेषां सांवृतानामिदंप्रत्ययतामात्राभ्युपगमेन तु प्रसिद्धिर्नान्यथा। आह च"प्रतीत्य कारकः कर्म तं प्रतीय च कारकम् । कर्म प्रवर्तते नान्यत्पश्यामः सिसिकारणम्"।
[माध्य. का. ६२] तस्मात्तत्वविचारकुशलैर्विचार्यमाणाः सर्व एव भावा निःखमावा अविवातिमिरोपहतमतिनयनाना बालकाना भासमानाः कर्ता कर्म, गन्ता गम्यं, हेतुः कार्य, द्रष्टा दृश्यमिति परस्परसापेक्षतामात्रेण प्रसिविमुपगता गन्धर्वनगरायन्ते । उक्तं च
"बुद्धां विविच्यमानानां खभावो नावधार्यते। अतो निरभिलप्यास्ते निःखभावाश्व कीर्तिताः॥ इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथाऽश्चिन्त्यन्ते विशीर्यन्ते तथा तथा" ॥
[सर्व० १२] तत् सिद्धम्
“अलातचक्रनिर्माणखममायाम्बुचन्द्रकैः। धूमिकान्तःप्रतिश्रुत्कामरीच्यौः समो भवः ॥ इति । एवं च निःखभावतैव भावानां पारमार्थिक रूपम्
"निःखभावा अमी भावातत्त्वतः खपरोदिताः। एकानेकखभावेन वियोगात्प्रतिबिम्बवत्" । निःखभावा इत्यनेनोपदेशेन नाभिनिवेशः कार्योऽभावे । भावाभिनिवेश इवाभावाभिनिवेशोऽप्यमिनिवेश इति मालिन्यमेव चित्तस्य । न ह्यभावाभिनिवेश इति कश्चिद्विशेषः । भावमपेक्ष्य त्यमावः प्रवर्तते । भावश्चत्कल्पना, अभावोऽपि कल्पनैव । तद्भाव इवाभावेऽपि । कल्पनामात्रेऽभिनिवेशोऽनुचित एव । "शून्यता सर्वदृष्टीनां प्रोका निःसरणं जिनैः । येषां तु शून्यतादृष्टिस्तानसाध्यान् वभाषिरे"।
[बोधि० ५० १४] यस्तु भावप्रतिषेधरूपः, स निरुपाख्यः खपुष्पकोटिमधिनिविशति । असति भावस्यैव स्खभाषे तत्प्रतिषेधस्य कः खभावः स्यात् । यस्मिनभिनिवेशः शोभेत। तत् भाव इवाभावो न कश्चित् , अत एव तदुभयात्मा सङ्कीर्णखभावोऽपि न कश्चित् । अत एव तदुभयप्रतिषेधात्माऽपि । भावविकल्पनिवन्धना यन्ये विकल्पाः । तस्मात्"न समासन सदसन चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुकं तत्त्वं माध्यमिका जगुः"॥
[ सर्वदर्शन० सं० ] इदमेव परमार्थसत्यं यचतुष्कोटिविनिर्मुकम् , यनैरात्म्यं सर्वभावानाम् । भावाश्च स्कन्धायतनादयः सांवृतं सत्यम् । संवृतिः-अविद्या । यथा भूतस्यावरणादयथाभूतस्य प्रकाशनाच संवतिल्च्यते
उक्त बोधिचर्यावतारपश्चिकायाम् ३५२ च
"अभूतं ख्यापयत्ययं भूतमात्य वर्तते । अविद्या जायमानेव कामलातरवृत्तिवत्" ॥ इति ।
अविद्या मोहो विपर्यास इति पर्यायाः। अनयाऽवभास्यमान संवृतिसत्यमुच्यते । ननु-अविद्यावभासः सत्यमिति च विरुद्धम् । सत्यम् । अथाप्यवितयं रूपं लोकस्येति संवृतिसत्यमुच्यते । यब परमार्थसत्यं तस्य द्वार भवति सांवृतमपि व्यवहारत उपदेशाय प्रभवत् , इत्यतब सांवृतमपि सत्यमुच्यते।