________________
"खमात्मानं नैव द्रष्टा दर्शनेन विपश्यति । न पश्यति यदाऽऽस्मानं कथं प्रक्ष्यति तत्परान् ।
[माय• ३४] यथायम्"प्रतीस मातापितरौ यथोक्तः पुत्रसम्भवः । चक्षुरूपे प्रतीत्यैवमुक्तो विज्ञानसम्भवः" ॥
[माध्य० ३४] स च नोपपद्यते । तथाहि"द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् । नास्त्रि"
[माध्य० ३४] "च्याख्यातं दर्शनं घ्राणं रसनं स्पर्शनं मनः । दर्शनेनैव जानीयात् श्रोतृश्रोतव्यकादि च"॥
[ माध्य० ३५] उकं हि भगवता बुद्धन"न चक्षुः प्रेक्षते रूपं मनो धर्मान वेत्ति च । एतत्तु परमं सत्यं यत्र लोको न गाहते ॥ सामग्या दर्शनं यत्र प्रकाशयति नायकः । प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान्"।
[माध्य. वृ० ३५] यदपि भगवतो वचनम्-'अविद्यानुगतोऽयं भिक्षवः पुरुषपुद्गलः पुण्यानपि संस्कारानमिसंस्करोति अपुण्यानपि संस्कारानभिसंस्करोती'ति, तदपि क्रमेण विनेयजनावतारणाय । एतेन-अस्ति वस्तुतो विज्ञानादि, येनायं कर्मकारकव्यपदेश उपपद्यते, असति कथमिदं घटेत, न हि कुर्मरोमभिः प्रावरणमित्यपास्तम् । यस्मात्
"सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् । सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ॥ सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः । कारको नाप्यसद्भूतः कर्मासद्भावमीहते ॥ करोति यद्यसद्भूतोऽसद्भूतं कर्म कारकः । अहेतुकं भवेत्कार्य कर्ता चाहेतुको भवेत् ॥ हेतावसति कार्य च करणं च न विद्यते । तदभावे क्रिया कर्ता करणं च न विद्यते ॥ कारकः सदसद्भूतः सदसत्कुरुते न तत् । परस्परविरुद्धं हि सञ्चासकतः कुतः"॥
[माध्य. ५०-६०] न चैतावता मन्तव्यं भावा न सन्तीत्येतदेषां मतमिति ।
न षयमवधारयामो न भावाः सन्तीति, प्रतीत्य समुत्पन्नान् बालेरयमेवमिति विकल्प्यमानान् न षयमयमेवमित्युपलभामहे । न नो नास्तीति प्रतिषेधे प्रवृत्तिः । यो त्ययमेवमस्तीति विकल्पयति, तस्यैव अयमिह नास्तीति विकल्पः।
"मरीचिं तोयमित्येतदिति मत्या गतोऽत्र सन् । यदि नास्त्रीति तत्तोयं गृह्णीयान्मूढ एव सः॥ मरीचिप्रतिम लोकमेवमस्तीति गृह्णतः। नास्तीति चापि मोहोऽयं सति मोहे न युज्यते"।
[माध्य• वृ०६१] नैरात्म्यामृतमेत विचारमथनोद्भवम् । विकल्पगरलोदप्रव्यामोहापहमद्भुतम् ॥