________________
निरुभ्यमानो हि विद्यमानः । तस्य कवमुत्पत्तिः । बानिरुध्यमानस्य बपुष्पायमाणो भावो नोपपद्यते । ईदृशः कथं खभावो भवितुमर्हति । .
तदेवम्, "स्थितिनिरुध्यमानस्य न भावस्योपपद्यते । यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥ निरुध्यते नानिरुवं न निरुद्धं निरुध्यते । तया निरुध्यमानं च"।
[माध्य. ५२-५३] "उत्पादस्थितिभङ्गानामसिद्धर्नास्ति संस्कृतम् । संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम्" ॥
[माध्य. ५६] तस्मात्"यथा माया यथा खप्नो गन्धर्वमगर यथा । तथोत्पादस्तथा स्थानं तथा भग उदाहृतः" ॥
[ माध्य० ५७] उक्तं च"यथा कुमारी सुपिनान्तरस्मिन् सा पुत्रजातं च मृतं च पश्यति । ततोऽतितुष्टा मृतिदौर्मनःस्थिता तथोपमान् जानत सर्वधर्मान् ॥ यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव ।। खभावशून्या तु निमित्तभावना तयोपमान् जानत सर्वधर्मान् ॥ संस्कृत असंस्कृतसर्वविविक्ता नास्ति विकल्पन तेषमृषीणम् । सर्वमतेषु असंस्कृत प्राप्ता दृष्टिगते हि सदैव विविका" ॥
[ माध्य० वृ० ५.] नन्वस्ति प्रवचनसिद्धमेतत्"दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः । इन्द्रियाणि, षडेतेषां द्रष्टव्यादीनि गोचरः" ॥
[ माध्य० ३२] नैतदुपपन्नम् । किं दर्शनेन्द्रियमात्मानं पश्यति । "खमात्मानं दर्शनं हि तत्तमेव न पश्यति । न पश्यति यदाऽऽत्मानं कथं द्रक्ष्यति तत्परान्" ॥
[माध्य० ३२] किश्व-पश्यतीति हि दर्शनमुच्यते। तेन दृशिक्रियायोगश्चक्षुषः प्रत्याय्यते। स च दृशिक्रियायोगो दर्शनखभावस्य वा चक्षुषः, अतत्खभावस्य वा, दर्शनखभावं तु तत् इशिक्रियायुक्तमेवेति पश्यतीति
भूयो दृशिक्रियान्वययोगस्तत्र नोपपद्यते । अतस्वभावे तु न तदन्वयः सुतराम् । तस्मात्......... "पश्यति दर्शनं मैव नैव पश्यत्यदर्शनम् । दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते” .....
[माध्य. ३३] "व्याख्यातो दर्शनेनैव द्रष्टा चापि तथा हि
__ . . . [माध्य. ३४] .