________________
1
अपरथागं भवति विभागक्रमः । यक्तिनेषां प्रकारान्तरेण मयान्तःपातः । यथा-संस्कृतो धर्मः असंस्कृतश्च । यस्योत्पादादि स धर्मः संस्कृतो धर्म उच्यते । स च रूपचित्तचैतचित्तविप्रयुकमेदाचतुर्षा । यो रूपस्कन्ध एकादशप्रकारः सोऽयं रूपधर्मः । सर्वेषां चैत्तधर्माणामास्थानमइङ्ग्रहाकडं चित्तमुच्यते । स चित्ताख्यो धर्मः । चैत्ताथ धर्माश्वित्तसम्प्रयुक्तसंस्कारा उच्यन्ते । येषां च शाखाः समासतः - महाभूमिकाधर्म, कुशलमहाभूमिकाधर्म, क्लेशमहाभूमिकाधर्म, अकुशलमहाभूमिकाधर्म, उपक्लेश महाभूमिकाधर्म, अनियतमहाभूमिकाधर्मभेदेन षोढा । अनयोश्चित्तचैतधर्मयोर्यथायथं विज्ञानस्कम्भस्य संस्कारस्कन्धेकांशस्य च समावेशः । समुदायमार्गबोस्तु समावेशो यथायथं रूपचित्तचैतेषु बोध्यः । असंस्कृतनेधा-आकाशम्, प्रतिसङ्ख्यानिरोधो, अप्रतिसङ्गवानिरोधवेति । निरोधसत्यस्यास्मित्रसंस्कृते समावेशः ।
सर्वशून्यवादिनो माध्यमिकाः पुनरेवं मन्यन्ते यद्यप्ययं स्कन्धायतनधातुविभेदः प्रदृश्यते नाम । माध्यमिकमत- तथाऽपि सांवृत एवायम् । संवृत्या - आवरणेन मायया कल्पितोऽयं संग्रहः । भेदव्यवहारः ।
“अलातचक्रनिर्माणखप्नमायाम्बुचन्द्रकैः । धूमिकान्तः प्रतिश्रुत्कामरीच्यधैः समो भवः” ॥ [ चतुःशतिका-३०० •1
“फेनपिण्डोपमं रूपं वेदना बुदुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुना" ॥
[ माध्य० १० १०]
न च प्रदृश्यत इत्येतावता परमार्थता
"इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि । जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं फलमू” ॥ [ बोधि० पं- ३७५ ]
यथादेशो भगवतो बुद्धस्य - 'सर्व सर्वमिति ब्राह्मण यावदेव पञ्च स्कन्धा द्वादशायतनान्यष्टादश धातव' इति । स तु लोकावतारणाय ।
"लोकावतारणार्थ च भावा नाथेन देशिताः । तत्त्वतः क्षणिका नैते - " ॥
[ बोधि० पं- ३७६ । ] “ममेत्यहमिति प्रोक्तं यथा कार्यवशाजिनैः । तथा कार्यवशात्प्रोक्ताः स्कन्धायतनधातवः” ॥ [ बोधि० पं- ३७६ ]
अयं च लोकानामवतारणक्रमः । स्कन्धायतनाद्युपदेशेन नास्तिक्यबुद्धेरनर्थपथादवतारणम् । तेषां प्रतीत्यसमुत्पादत्वोपदेशेन क्षणिकत्वैकान्तेन तदभिषङ्गदोषावहात् तत्स्थैर्यमोहादवतारणम् । प्रतीबासमुत्पादस्वरूपविमर्शाधानेन शून्यतायामवतारणम् ।
कथं प्रतीत्यसमुत्पादाः शून्याः स्युः ? । अतस्त्वदृष्टेः प्रतीत्यसमुत्पादा नाम, तत्त्वदृटेस्तु शून्या एव । " न तो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः वचन केचन" ॥ [ माध्य० ४ । ]