________________
प्रविण्याविधातुसमवायः । तत्र पृषिवीधातु जस्स सन्धारणकृत्यं करोति । अब्धातुबीजं नेहयति । तेजोधातु परिपाचयति । वायुधातु जममिनिहरति । एवेको यदा विकलो भवति न तदा बीजापारस्यामिनिईतिर्भवति । समवाये चैषां बीजे निरुध्यमानेऽदरस्याभिनिवृत्तिर्भवति । नैकस्याप्येषु भवत्यहमिदं कृत्यमस्य बीजस्य करोमीति, अस्य वारस्य न भवत्ययमेभिः प्रत्ययैर्निवर्तित इति । तदयमधुरादिः प्रतीत्यसमुत्पादः । यत् प्रतीत्य प्राप्य कारणं सपदि समुत्पद्यते केवलम्, न चेतयितारमपेक्षते न वाऽयमहमेतेनामिनिवर्तित इति चेतयते । विशेषश्चैष तीथिकाभिमतात् । अयमपरश्च विशेषः । स भावो नास्ति यः प्रतीत्यसमुत्पादो न स्यात् । क्षणिकाश्च सर्वे भावाः। अध्यात्ममयं हेतूपनिबन्धः अविद्या-संस्कार-विज्ञान-नामरूप-षडायतन-स्पर्श-वेदना-तृष्णा-उपादान-भव-जात्यादिः। तत्र उत्तराः पूर्वपूर्वप्रत्ययाः। यथा-अप्रतिपत्तिरन्यथाप्रतिपत्तिरविद्या, सत्यां चाविद्यायां पुण्योपगादयस्त्रिविधाः संस्कारा, भवन्ति । त एतेऽविद्याप्रत्ययाः संस्काराः । त्रिविधैः संस्कारैत्रिविधं विज्ञानं भवति तत् संस्कारप्रत्ययं विज्ञानम् । विज्ञानेन नामरूपं भवति तद्विज्ञानप्रत्ययम् । नामरूपात् षडायतनं भवति तनामरूपप्रत्ययम् । तेन स्पर्शः स तत्प्रत्ययः । तेन स्पर्शेन वेदना सुखादिलक्षणा, सा वेदना स्पर्शप्रत्यया । वेदनया तया भवति तृष्णा मयेदं सुखं साध्यमित्यध्यवसायलक्षणा । सेयं तृष्णा वेदनाप्रत्यया । तृष्णया च तया भवत्युपादानमपरित्यागलक्षणम्-मा भवतु विप्रयोगः प्रियसातरूपैरिति भूयो भूयः-प्रार्थनात्मकम् , तदिदमुपादानं तृष्णाप्रत्ययम् । एवं प्रार्थयमाने पुनर्भवजनक कर्म समुत्थाप्यते कायेन वाचा मनसा वा, तद्भव उच्यते । सोऽयमुपादानप्रत्ययः । तेन भवेन स्कन्धानामभिनिवृत्तिर्भवति, सेयं जातिर्भवप्रत्यया। जात्याऽभिनिवृत्तानां स्कन्धानामुपचयपरिपाकायो विनाशः स जरामरणमुच्यते । जातिप्रत्ययं चैतत् । बाह्य इवाध्यात्म प्रत्ययोपनिबन्धः पृथिव्यादिधातूनां विज्ञानधातुनैकेनाधिक्यं गतानां समवायो बोध्यः । न चेह हेतोर्जात्यदिः प्रत्ययस्य वा विज्ञानस्कन्धादेरहमिदमस्य कृत्यमभिनिवर्तयामीति भवत्यभिसन्धिः। न वाऽभिनिवर्यस्य संस्कारादेर्भवत्यहमनेनाभिनिवर्तितोऽस्मीत्यभिसन्धिः । तदयं भवति प्रतीत्यसमुत्पादः । तस्यास्य स्कन्धपञ्चकस्य हेतूपनिपातः समुदयः ।
यो निरोधो दुःखस्यास्य स निरोधसत्यम् । प्रतिसङ्ग्यानिरोधाप्रतिसङ्ख्यानिरोधमेदेन द्विधाs. भिमतयोनिरोधयोः प्रतिसङ्ख्यानिरोधकोटावनुप्रविशतीदं निर्वाणलक्षणं निरोधसत्यम् । यस्य द्वार मार्गसत्यं चतुर्यमुच्यते।
स चायमष्टानो मार्ग:--सम्यग्दृष्टिः सम्यक्साल्पः सम्यग्वाक् सम्यकर्मान्तः सम्यगाजीवः सम्यग्व्यवसायः सम्यक्स्मृतिः सम्यक्समाधिश्चेति । तत्र सम्यग्दृष्टिः-दुःखतद्धेतुतनिरोधमार्गाणां याथातथ्येन दर्शनम् । सम्यक्सहल्पः-विषयवैमुख्ये परहिताधानादिषु च सङ्कल्पः । सम्यग्वाचा मृषावादपैशुन्यपारुष्यादिरहितं भाषणम् । सम्यकर्मान्तः-प्राणातिपातादत्तादानकाममिथ्याचारप्रत्यनीक सत्कर्म । सम्यगाजीवः-परानभिद्रोहं जीवनम् । सम्यग्व्यवसायः-विहिताधानप्रतिषिद्धवर्जनयोईढोऽध्यवसायः। सम्यक्स्मृतिः-यया स्मृत्या न भवेन्मनस्यकुशलानामवकाशः कुशलानामेव तु स्यात् , सेयं सम्यक्स्मृतिः । सम्यक्समाधिः-चित्तसंप्रतिरोधः समाधिः, कामादिषितर्कपवनैरप्रकम्प्यतापादनमेका. प्रतापादनं च सम्यक्मरणादिषु सम्यक्समाधिरुच्यते।
स्वायतनधातूला हुम्लामा प्रत्ययस्य च । निरोधमार्गयोश्चेत्यं भेदः सहिप्य दर्शितः ॥ .