________________
इदमिहावधेयम् । प्रक्रम्य सर्वास्तित्ववादं प्रस्तोष्यमाणः पदार्थविभांगी नात्यन्तं विप्रंतीप इतरमोर्वादयोः । न हि स्कन्धायतनादिपदार्थविभागमितरे प्रतिक्षिपन्ति । विज्ञानवादिनो विज्ञानादनम्यताम्, शून्यवादिनः शून्यतामिच्छन्तोऽपि व्यवहृतिपथे सांवृतमिच्छन्ति । तदयमेव पदार्थविभाग इतरयोर्यथासम्भवं बोध्यः ।
"
इदमभिमतं सर्वास्तित्ववादिनाम् । चत्वार्यर्यसत्यानि यद्विज्ञानं निःश्रेयसद्वारम् - दुःखं समुदयो मार्गों निरोधश्चेति । तत्र दुःखं - रूपस्कन्धो वेदना स्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्वेति पञ्च स्कन्धाः । रूपाद्येकैकमप्यवान्तरविविधविभागयुक्तमिति स्कन्ध उच्यते । तरोः स्कन्ध इव विततानेकशाखः । तत्रैकादशविधो रूपस्कन्धः । चक्षुः श्रोत्रं घ्राणं जिह्वा कायः रूपं शब्दो गन्धो रसः स्पर्शः अविज्ञप्तिश्चेति । पञ्चेन्द्रियाणि पञ्च विषयाः अविज्ञप्तिः कुशलाकुशलविशेष लक्षणेयमेकेत्येकादशेत्येतत् । यत इयं नाभिव्यज्यते ( इन्द्रियैः ) सेयमविज्ञप्तिरुच्यते । तथा च वचनम् - " यस्माद्रूपक्रियास्वभावाऽपि सती विज्ञप्तिवत्परं न विज्ञापयति तस्मादविज्ञप्तिरित्यर्थः ” [ अभिधर्मकोशे प्रथमाध्याये ] इति । वाचिकाविज्ञप्तिकर्म कायिकाविज्ञप्तिकर्मेति च कर्मविभागप्रकरणे विभजनाच्च सम्भाव्यते पुण्यापुण्यस्थानीया सेयमविज्ञप्तिरिति । इन्द्रियपञ्चकं विषयपञ्चकं भूतचतुष्टयं चेति रूपस्कन्ध इत्यपरे । वेदनास्कन्धः सुखदुःखोपेक्षात्मना त्रिधा विभिनः । संज्ञास्कन्धः - 'संज्ञा - निमित्तो ग्रहणात्मिका, निमित्तं वस्तुनोऽवस्थितिविशेषो नीलत्वादि, तस्योद्ग्रहणं परिच्छेद:' [ अभिधर्मकोशव्याख्या ] । स च नीलो - यमित्यादिः सविकल्पकः प्रत्ययः । चित्तसम्प्रयुक्त चित्तविप्रयुक्तभेदेन द्विविधाः संस्काराः संस्कारस्कन्धः । तत्र प्रथमवर्गे रागद्वेषमानमात्सर्यादीनां बहूनां समावेशः । अपरस्मिन् वर्गे जातिजरामरणादिक्लेशानां समावेशः । तद्विस्तरस्त्वन्यत्र बोध्यः । विज्ञानं मनश्चित्तमित्यनर्थान्तरम् । अयं च विज्ञानस्कन्धः चक्षुर्विज्ञान श्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानमनोविज्ञानैः षट्शाखः । सेयं पञ्चस्कन्धी तत्त्वदृष्ट्या दुःखपरिणतिर्दुःखमित्यैकराश्येन गण्यते । यश्च विभागः द्वादशायतनानि चक्षुः श्रोत्रप्राणजिह्वाकायमन आयतनानि, रूपगन्धशब्दरसस्पर्शधर्मायतनानि चेति । अष्टादश धातवः -चक्षुः श्रोत्रघ्राणजिह्वाकायमनोरूपगन्धशब्दर सस्पर्शधर्मधातवः चक्षुर्विज्ञान श्रोत्र विज्ञानप्राणविज्ञान जिह्वाविज्ञान काय विज्ञानमनोविज्ञानधातवश्चेति । स च यद्यपि न स्कन्धेभ्यो बहिर्भूतः । अथाऽपि स्वभावविशेषयोगात्तथा विभागः, यथा वैशेषिकेषु द्रव्येष्वेव भूतमूर्तविभुविभागः ।
तस्यास्य स्कन्धपश्चकलक्षणस्य दुःखस्य येन समुदयो भवति स समुदय उच्यते । स द्विधातूप निबन्धः प्रत्ययोपनिबन्धश्चेति । हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति तेषामयमानानां यो भावःसमवायः स प्रत्यय उच्यते । हेतूनां समवाय इत्येतत् । अयं च विभागः स्फुटप्रतिपत्तये । तथा चाभिधर्मकोशव्याख्यायाम् — 'हेतूनां प्रत्ययानां च कः प्रतिविशेषः ? । न कश्चिदित्याह-उकं हि भगवता द्वौ हेतू द्वौ प्रत्ययौ सम्यक् दृष्टेरुत्पादाय ......हेतुः प्रत्ययो निदानं कारणं निमित्तं लिङ्गमुपनिषदिति पर्याया' इति । तत्र बाह्येऽयं हेतुपनिबन्ध: - बीजादङ्कुरमङ्कुरात्पत्रं पत्रात्काण्डं काण्डानालं नालाद्गर्भों गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति । असति बीजेऽङ्कुरो न भवति । यावदसति पुष्पे फलं न भवति सति तु बीजेऽङ्कुरस्यापि निर्वृत्तिर्भवति । एवं यावत् सति तु पुष्पे फलस्यामिनिर्वृत्तिर्भवति । अस्मिन् हेतुपनिबन्धे बीजादौ न कस्याप्यहमिदं निर्वर्त्तयामीति अवत्यभिसन्धिः । न वैकस्य निर्वर्त्य - स्वाङ्कुरादेर्भवत्यनेनाहं निर्वर्त्तित इति । सति बीजादाबङ्कुरादि । अयं तु प्रत्ययोपनिबन्धो बाह्यस्य यः