________________
सरः ३]
व्यावर्तमानत्वहेतोः नश्वरत्वबाध्यत्वरूपतासभवनिरासः
231
तत्त्वमुक्ताकलापः स्वसमयविहतिर्मध्यमे स्यादसिद्धि.
सर्वार्थसिद्धिः नश्वरत्वहेतुरसिद्धः । न खलु नित्यासतां खपुष्पादीनां नश्वरत्वं पामरः परीक्षको वा कश्चित् प्रत्येति ।
तत्रापि नश्वरत्वेन नित्यसत्त्वं निरुध्यताम् । स्वकालेतरकाले च तेन मिथ्यात्वमिष्यताम् ॥
बाध्यत्वहेतुं बाधते-मध्यम इति । प्रपञ्चम्य बाध्यत्वं हि स्वदेशादौ वा ? स्वारोपदेशादौ वा ? आये त्वसिद्धिरवस्थापिता । द्वितीये बाधस्थलेष्वेव मिथ्यात्वसाधने सिद्धसाध्यता । अन्यत्र साधने त्वविषयवृत्तित्वम् ; अन्यथाऽतिप्रसङ्ग. ; प्रपञ्चविषयबाधेन
आनन्ददायिनी ननूत्तरकालासत्त्वमेव नश्वरत्वमस्त्वित्यत्राह-न खल्विति । ननु नश्वरम्य सर्वदा निषेधाभावे सर्वदा सत्त्व स्यादित्यत्राह--'तत्रेति । यथा नश्वरत्वं किंचित्कालासत्त्वेन सर्वकालसत्त्वविरोधि तथा किंचित्कालसत्त्वात् सर्वकालासत्त्वात् सर्वकालसत्त्वविरोध्यपीति विरुद्धत्वमपीति भावः । पूर्वत्र हेतुसाध्यपदयोरनन्वितत्वं दोषः ; इदानीमर्थगतो दोष उक्त इति ध्येयम् । द्वितीये किमारोपम्थल एव मिथ्यात्व साध्यते ; उत सर्वावच्छेदेनेति विकल्पं मनसि निधाय आद्य आह-बाधस्थलेष्विति । द्वितीय आह-अन्यत्रेति । बाघदेशाद न्यत्रापीत्यर्थः । अविषयेति । स्वस्याविषये व्यापकतारहिते वृत्तिापारो दोष मूलः पराजयहेतुरिति यावत् । तदुक्तं वरदराजीये –' दृष्टत्वमूलं द्विविधम्' इत्यारभ्य 'असाधारणं तु त्रिविधं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमाविषयवृत्तित्वं च, इत्यादिभिः । अन्यथेति । एवंविधस्यापि साधकत्व इत्यर्थः । प्रपञ्च1 तदत्रेति-ग. सर्वकालासत्त्वविरोध्यपीति-ग, 3 न्यत्रेत्यर्थः-ग. + मूल परा-ग.