________________
230
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः आद्येऽनैकान्त्यमन्त्ये
सर्वार्थसिद्धिः दूषयति-आद्य इति । भिन्नत्वं ह्यत्र स्वप्रतियोगिकं वा ? स्वेतरप्रतियोगिक वा? स्वतोऽन्यतो वेति विशेषानादरेण यत्किंचित्प्रतियोगिकं वा! आदिमस्त्वसंभवग्रस्तः ; भेदाभेदकुसृष्टिश्च त्वया नाङ्गीक्रियते ; अनन्तरस्त्वनैकान्त्यहतः । सत्ये ब्रह्मण्यतव्यावृत्तिं वदता त्वयैव स्वेतरान्यत्वस्य स्वीकारात् । तत एव सामान्योक्तिरपि निघूता । अत्र क्रमस्य दूषणानुपयोगित्वादपसिद्धान्तोद्घाटनत्वरया च तृतीयं दूषयतिअन्त्य इति । यदि ह्यत्र स्वकालसत्त्वमभ्युपेत्य उत्तरकालासत्त्वं हेतुरुगृह्यते, तदा मिथ्यात्वेन सिषाधयिषितस्य "स्वकालसत्त्वाभ्यनुज्ञानेऽपसिद्धान्तः ; हेतुसाध्यपदव्याघातश्च । अनभ्युपगतस्वकालसत्त्वे तु
आनन्ददायिनी विस्मरणम् । आदिमस्त्विति । स्वप्रतियोगिकभेदस्य विरोधेन स्वस्मिन्नसम्भवादित्यर्थः । तत एवेति । ब्रह्मण्यनैकान्त्यादित्यर्थः । अपसिद्धान्त इति । सत्यमेव हि सत्यत्व ; तत्काले सत्त्वे तन्निषेधायोगादिति भावः। हेतुसाध्यपदेति। हेतुसत्त्वप्रतिपादकहेतुपदस्य तदभावप्रतिपादकसाध्यपदेन विरोध इत्यर्थः । पूर्व'कालसत उत्तरकालसत्त्वं नश्वरत्वमित्यभिप्रायेणाह-अनभ्युपगतेति ।
1 वर्णयता-पा. 4 काले सत-क,
2 स्वकालसत्यत्वानुशाने-पा.
विरोधे तरिम-ग.