SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सरः ३7 सत्येतरस्य मिथ्याशब्दविवक्षितत्वे व्याघातप्रदर्शनम् 199 mrom तत्त्वमुक्ताकलापः निर्मर्यादोक्तिमात्राजगदपलपतः किं न सत्यं ततस्तत् ॥४५॥ ___ साध्ये सत्येतरत्वे कथित इह भवेत् स्वस्य हि स्वान्यभावो सर्वार्थसिद्धिः लोकमर्यादानुरोधेन वक्तव्यम् ; अन्यथा तत्साधकासिद्धेः । अतः स्वमर्यादासिद्धयर्थं लोकमर्यादा अनतिक्रमणीयेति भावः । उत्तरत्र विपरीतप्रसक्तिमाह-निर्मर्यादेति । स्वोक्तिमात्रसिद्धमर्यादया जगन्मिथ्यात्वाभिधाने मदुक्तिमात्रसिद्धमर्यादया सत्यत्वसाधकप्रमाणाभावेऽपि जगत्सत्यमिति प्रत्युक्तिमात्रेण सिद्धौ बाघितविषयं त्वदनुमानं स्यादिति भावः ॥ ४५ ॥ मिथ्याशब्दविवक्षितं च विकल्पासहत्वेन दूषयति --साध्य इति । अयं भावः-किं यतःकुतश्चिदन्यत्वं सिषाधयिषितम् ? उत सर्वस्मात् ? आद्य सत्यानां पृथिव्यादीनां परम्परान्यत्वेन सिद्धसाधनता ; द्वितीये सर्वेषां प्रत्येकं सत्यशब्दवाच्यतया स्वस्मादप्यन्यत्वं सर्वेषां प्रतिज्ञातं स्यात् ; आनन्ददायिनी दीत्याभिमानिकपमाणक्लप्तिरित्यर्थः । लोकमर्यादति । लोके पक्षदृष्टान्तसाध्यसाधनादीनां पारमार्थिकानामेव प्रमाणाङ्गत्वादिति भावः। सत्यत्वसाधकप्रमाणाभावेऽपीत्यभ्युपेत्यवादः । वस्तुतः प्रत्यक्षादिकमस्तीति भावः ॥ ४५ ॥ पूर्वसङ्गतिरेवात्रापीत्याह-मिथ्याशब्देति । सत्येतरत्वं साध्य चेत्कथं स्वभिन्नत्वं पर्यवस्यतीति स्वस्यासत्यत्वेनैव सिद्धेः । अन्यथा इतरभेदे पृथिव्यादावपि तद्भेदप्रसङ्गेन तत्रापि व्याघातप्रसङ्गादित्यत्राहअयं भाव इति । सर्वेषां प्रत्येकमिति । ननु सत्यत्वावच्छिन्न
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy