SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 100 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः धर्मो यावत्सपक्षानुगत उपधिरित्यभ्युपेतस्त्वयापि सर्वार्थसिद्धिः इति न्यायात् । अथवा कारणान्तरैरेव कार्यसिद्धिः यथा प्रध्वंसस्येति विशेषः ॥ २१॥ सोपाधिकत्वमपि दर्शयितुमाह-धर्म इति । यावत्सपक्षानुगतः- पक्षे विपक्षे चावर्तमानस्सपक्षाभिव्याप्त इत्यर्थः। अस्ति चात्र तादृशो धर्मः शरीरजन्यत्वम् । यद्यप्यसौ पक्षीकृते शरीरगुणादिविशेषे वर्तते, तथाऽपि साधनव्यापकत्वाभावात् म्वनिवृत्त्या साध्यनिवर्तन आनन्ददायिनी कार्यविशेषः, विशेषवान्-कारणविशेषवान् , अन्वयमुखेन । कारणविशेषाभावे कार्यविशेषाभावोऽभिप्रेतः । केचित्त -विशेषः कारणविशेषाभावः कार्यविशेषाभाववानित्यर्थ इत्याहुः । ननु पक्षातिरिक्त सर्वत्र हेतुतया सिद्धस्य कार्यमाने कथं हेतुत्वं न ' स्यात् कल्पकस्य त्वस्य सत्त्वादित्यत्राह-अथवेति । अन्यथासिद्धत्वादिति भावः ॥ २१ ॥ दूषणप्रसङ्गादाह-सोपाधिकत्वमपीति । पक्ष विपक्षे चेति । पक्षग्रहणेन - साधनव्यापकत्वमभिमतं, विपक्षावृत्तिवचनेन समव्याप्तिरभिमता, सपक्षाभिव्याप्त इत्यनेन साध्यव्यापकत्वं बोध्यम् । शरीरगुण विशेषा.-शरीरजन्यरूपादयः । तथाऽपीति । पक्षावृत्तित्वस्य 1 स्यात् तत्कल्पितस्य कार्यत्वस्य-ग. 2 साधनाव्याप-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy