SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सरः ३] कार्याभावस्यकारणमात्राभावप्रयुक्ततयातस्यकारणविशेषाभावप्रयुक्ततानिरासः 99 तत्त्वमुक्ताकलापः एकत्यागेऽन्यहेतुत्यजनमिति च न ध्वंसवत्लावधित्वात तस्माद्धेतोरभावे न फलमिति गतिस्तद्विशेषे विशेषः ॥२१॥ सर्वार्थसिद्धिः मन्यतमस्य त्यागे सर्वहेतुत्यागोऽपि स्यादिति शङ्कते-एकेति । सर्वहेतुत्यागे कादाचित्कत्वविरोघं प्रकृते तदभावं चाभिप्रेत्याह- नेति । प्रतिबन्दि सूचयन् अन्यहेत्वपरित्यागे हेतुमाह-ध्वंसवदिति । ध्वंसो ह्यभूत्वा भवन् हेतुमपेक्षमाणस्समवाय्यसमवायिनारसंभवानिमित्तमात्रनिष्पाद्यस्त्वया स्वीकृतः ; तथा पक्षेऽपि जीवातिरिक्तस्य कर्तुः कल्प. यितुमशक्यत्वात् कथंचिज्जीवकर्तृकत्वं कर्तृनिरपेक्षत्वं वा स्वीक्रियतामिति भावः । विपक्षे बाधकामावं निगमयति-तस्मादिति । हेत्वभावे कार्य न स्यात् , न तु कार्यमात्रानपेक्षितहेतुविशेषाभावे ; तत्र तु कार्यविशेषनिवृत्तिर्वा, यथा कलमबीजाभावे कलमाङ्करस्य । हेत्वभावे फलाभावो विशेषस्तु विशेषवान् । आनन्ददायिनी व्यतिरेकदर्शनादिति भावः। ननु ध्वंसस्य भावत्वाभावात् 1 समवायानपेक्षाऽस्तु ; प्रकृते तु कर्तुरभावे कार्य न स्यादित्यत आह-कथं चिदिति । तथा व्याप्तिसिद्धावपि न विवक्षितसिद्धिरिति भावः । न तु कार्यमात्रेति। कर्तुः कार्यत्वावच्छेदेन हेतुत्वासिद्धेः ; क्वचिद्दर्शनमप्रयोजक, शरीरहेतुकत्ववदिति भावः । मीमांसकसंमतिमाह हेत्वभाव इति । कारणमात्राभावे फलस्य कार्यमात्रस्याभाव इत्यर्थः । विशेषः 1 समवाय्यनपेक्षा-क. 7*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy