________________
सरः ३] वार्तिकटीको क्तपक्षान्तरनिरासः, अदृष्टैरेव सर्वोपपत्तिसंभवापादन च
87
सर्वार्थसिद्धिः सोश्चाद्यं कर्मेत्येतान्यदृष्टकारितानि' इति, तत्कभ्य हेतोः ! नूनं क्रियाहेतुगुणान्तरनिवृत्त्यै स्यात् । एवं सति यत्रादृष्टप्रागल्भ्यं, तत्र मुधा तत्पूर्वक्षणवर्तिज्ञानचिकीर्षाप्रयत्नक्लप्तिः, प्राचीनैरेव तैर्जीवस्य तत्कर्तृत्वोपपत्तेः। अन्यथा शराभिचारकृष्यादिप्रयोगे वेधपीडादिकर्तृत्वं प्रयोक्तुन म्यात् । भा भूदिति चेत्तन्न, लौकिकवैदिकचित्तविसंवादात् ।
आनन्ददायिनी हेतुगुणत्वमद्वारकं क्रियाहेतुत्वम् । तत् कस्य हेतोरिति । एतान्यदृष्टकारितानीति कल्पनं कस्मै प्रयोजनायेत्यर्थः । नूनमिति । अन्यथा विशेषोक्तेः प्रयोजनभावाद्यनमन्तरेण क्रियाजनकमिति तत एष द्वयणुकादिप्रक्रमेण जगत्सृष्टिरस्त्वित्यर्थः । ननु क्रियासिद्धये न यत्नादिक्लप्तिः। किं तु सकर्तृकत्वव्याप्तया कर्तृसिद्धौ ज्ञानादिमतः कर्तृत्वात्तत्सिद्धिरित्यत आह-प्राचीनैरेवेति । अदृष्टजनकैः ज्ञानचिकीर्षादिभिरेवेत्यर्थः । तत्कृत्वोपपत्तेरिति क्वाचित्पाठः । तदा तत् जगत् कगेतीति तत्कृत् तस्य भावः, जगत्कर्तृत्वमिति यावत् । नन्वद्वारकक्रियाजनकत्वे कर्तृत्वमन्यथा कुलाल इव तभोक्तुरपि कर्तृत्वं स्यादित्यत्राह ---अन्यथेति। लौकिकेत्यादि। कृष्यादौ लौकिकैः कर्तृताव्यवहारात् , अभिचरतो हिंसा कर्तृत्वस्य वैदिकैयंवहारादित्यर्थः । अन्यथा हिंसकप्रायश्चित्तोपदेशस्तस्य न स्यादिति भावः । नन्वदृष्टद्वाराऽपि कर्तृत्वेऽतिप्रसङ्ग इति चेत्तर्हि सद्वारक कर्तृत्वेऽप्यतिप्रसङ्गः स्यात् । ननु यत्र कर्तृताग्राहकमम्ति तत्र हि मध्यवर्तिनां द्वारत्वं, यत्र तु तन्नास्ति तत्र न सद्वारकमपि कर्तृत्वं, यथा कुलाल
1 हेतुत्वगुणत्व-क. 2 तत्कार्यस्य-ग. ३ पाटे तदा-ग. 4 कर्तृत्वादिवैदिक-क. 5 कर्तृत्वेऽति-ग. 6 तत्र मध्यवर्तिनो द्वार-ग.