________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५
१०१९]
दशमोऽध्यायः
३२५
परिणामशरीरो भविष्यति स गर्भाष्टमे वर्षे अर्धचतुर्थारनिप्रमाणो भवति, तस्य च मुक्तिर्भवति । मध्ये नाना भेदावगाहनेन सिद्धिर्भवति । सिध्यतां पुरुषाणां किमन्तरं भवतीति प्रश्ने निकृष्टत्वेन द्वौ समौ भवतः उत्कर्षेण अष्टसमया अन्तरं भवति । द्वावपि भेदौ जघन्यस्य । जघन्येन एकः समयः | उत्कर्षेण षण्मासा अन्तरं भवति । अथ कया सख्यया सिद्धयन्ति ? ५ जघन्येन एकसमये एकः सिद्धयति । उत्कर्षेण अष्टोत्तरशतसंख्या एकसमये सिद्धयन्ति । अथाल्पबहुत्वमुच्यते - प्रत्युत्पन्ननयात् सिद्धिक्षेत्रे सिद्धयन्ति तेषामल्पबहुत्वं नास्ति । भूतपूर्वनयात्तु विचार्यते क्षेत्रसिद्धा द्विप्रकाराः जन्मक्षेत्रतः संहरणक्षेत्रतश्च । क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिश्च । तथा क्षेत्रविभागः समुद्रद्वीपाः ऊर्ध्वमधस्तिर्यक् च । तत्र ऊर्ध्वलोकसिद्धा अल्पे । अधोलोकसिद्धाः संख्येयगुणाः । तिर्यक् लोक सिद्धाः संख्येयगुणाः । सर्वस्तोकाः १० समुद्रसिद्धाः । द्वीपसिद्धाः संख्येयगुणाः । एवमविशेषेण व्याख्यानम् । विशेषेण तु सर्व स्तोकाः लवणोदसिद्धाः । कालोदसिद्धाः संख्येयगुणाः । जम्बूद्वीप सिद्धाः संख्येयगुणाः । धातकीखण्डसिद्धाः संख्येयगुणाः । पुष्करद्वीपार्धसिद्धाः संख्येयगुणा इति । एवं कालादिविभागेऽपि परमागमानुसारेणाल्पबहुत्वं बोद्धव्यम् । तथाहि — कालस्त्रिप्रकारः उत्सर्पिणी अवसर्पिण्यनुत्सपिण्यनवसर्पिणी चेति । तत्र सर्वतः स्तोकाः उत्सर्पिणीसिद्धाः । अवसर्पिणीसिद्धा विशेषा१५ धिकाः । अनुत्सर्पिण्यनवसर्पिणीसिद्धाः संख्येयगुणाः । ऋजुसूत्रनयापेक्षया तु एकसयये सिद्धयन्तीत्यल्पबहुत्वं नास्ति । गतिं प्रति विचार्यते - ऋजुसूत्रापेक्षया सिद्धगतौ सिद्धचन्तीति तत्राल्पबहुत्वं नास्ति | व्यवहारापेक्षयापि मनुष्यगतौ सिद्धयन्तीति तत्राप्यल्पबहुत्वं नास्ति । एकान्तरगतावल्पबहुत्वमस्तीति तद्विचार्यते । सर्वतः स्तोकाः तिर्यग्योन्यन्तरगतिसिद्धाः । मनुष्ययोन्यन्तरगतिसिद्धाः संख्येयगुणाः । नारकयोन्यन्तरगतिसिद्धाः संख्येयगुणाः । स्वर्ग२० योन्यन्तरगतिसिद्धाः संख्येयगुणाः । लिङ्गं प्रति अल्पबहुत्वं विचार्यते--ऋजुसूत्र नयापेक्षया अवेदात्सिद्धयन्तीति नास्ति अल्पबहुत्वम् । व्यवहारनयात्तु सर्वतः स्तोकाः नपुंसक वेद सिद्धाः स्त्रीवेदसिद्धाः संख्येयगुणाः । पु'वेदसिद्धाः संख्ये यगुणाः । तथा चोक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
"बीस णपुंसयवेया धीवेया तह य होंति चालीसा |
पुंवेया अडयाला समये गते सिद्धा य ।" [] एवं तीर्थ चारित्रादिभेदैरप्यल्पबहुत्वं परमागमात्सिद्धम् ।
एषा तत्त्वार्थवृत्तियैर्विचार्य्यते शिष्येभ्यः उपदिश्यते च तैर्जिनवचनामृतस्वादिभिः पुरुषैः शृण्वद्भिः पद्भिश्च परम 'मुक्तिसुखामृतं निजकरे कृतं देवेन्द्रनरेन्द्रसुखं किमुच्यते ।
१ परमसुखा- आ०, ६०, ज० ।
For Private And Personal Use Only