________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वार्थवृत्तौ
[१०९ नयाः प्रत्युत्पन्नविषया वर्तन्ते । शेषास्त्रयो नया नैगमसङ्ग्रहव्यवहाराख्या उभयविषया' इति वेदितव्यम् । भूतप्रज्ञापननयाजन्मतः संहरणाच्चेति द्विप्रकारादविशेषेण उत्सर्पिण्यवसर्पिण्योर्जातः सिद्धयति । विशेषेण तु अवसर्पिण्याः सुषमदुःषमाया अन्ते भागे दुःषमसुषमायाश्च जातः सिद्धयति । दुःषमसुषमायां जातो दुःषमायां सिद्धयति । दुःषमायां जातो दुःषमायां न ५ सिद्धयति । 'अन्यदा दुःषमदुःषमायां जातः सुषमसुषमायां जातः सुषमायां जातः दुःषमायाम्
अन्त्यभागरहितायां सुषमदुःषमायाच जातो नैव सिद्धयति । संहरणापेक्षया उत्सर्पिण्यवसर्पिण्याञ्च सर्वस्मिन् काले च सिद्धथति । अथ कस्यां गतौ सिद्धः सिद्धथति ? सिद्धगतो मनुष्यगतौ वा सिद्धयति । अथ केन लिङ्गन सिद्धिर्भवति ? अवेदत्वेन त्रिभिदैर्वा सिद्धि
भवति भावतो न तु द्रव्यतः । द्रव्यतस्तु पुंवेदेनैव सिद्धिर्भवति । अथवा लिङ्गशब्देन निर्ग्रन्थ१० लिङ्गेन सिद्धिर्भवति । भूतनयापेक्षया सग्रन्थलिङ्गेन वा सिद्धिर्भवति "साहारणासाहारणे।"
[सिद्धभ०५] इति वचनात्। अथ कस्मिंस्तीर्थे सिद्धिर्भवति ? तीर्थकरतीर्थे गणधरानगारकेवलिलक्षणेतरतीर्थे च सिद्धिर्भवति । अथ केन चारित्रेण सिद्धिर्भवति ? इत्यनुयोगे विशेषव्यपदेशरहितेन एषोऽहं सर्वसावधयोगविरतोऽस्मीत्येवं रूपेण साममायिकेन ऋजु सूत्रतया यथाख्यातेनैकेन सिद्धिर्भवति । व्यवहारनयात् पञ्चभिश्चारित्रः सिद्धिर्भवति । परिहारविशुद्धि१५ संज्ञकचारित्ररहितैश्चतुर्भिश्चारित्रैर्वा सिद्धिर्भवति । स्वशक्तिनिमित्तज्ञानात् प्रत्येकबुद्धाः
सिद्धयन्ति । परोपदेशनिमित्तज्ञानात् बोधितबुद्धाः सिद्धयन्ति एतद्विकल्पद्वयमपि मिलित्वा एकोऽधिकारः । अथ केन ज्ञानेन सिद्धिर्भवतीति प्रश्ने ऋजुसूत्रनयादेकेन केवलज्ञानेन सिद्धिभवति । व्यवहारनयात् पश्चात्कृत मतिज्ञानश्रुतज्ञानद्वयेन मतिश्रुतावधिज्ञानत्रयेण मतिश्रुतमनःपर्ययज्ञानत्रयेण वा सिद्धिर्भवति, मतिश्रुतावधिमनःपर्ययज्ञानचतुष्टयेन वा सिद्धि२० भवति। अस्यायमर्थः-मतिश्रुतयोः पूर्व स्थित्वा पश्चात् केवलज्ञानं "समुत्पाद्य सिद्धा
भवन्ति । तथा मतिश्रुतावधिषु पूर्वं स्थित्वा पश्चात् केवलमुत्पाद्य सिद्धयन्ति । अथवा मतिश्रुतमनःपर्ययेषु स्थित्या केवलं लब्ध्वा सिद्धयन्ति । तथा मतिश्रुतावधिमनःपर्ययेषु पूर्व स्थित्वा पश्चात् केवलमुत्पाद्य सिद्धयन्ति । तथा चोक्तम्
"पच्छायडेय सिद्धे दुगतिगचदुणाणपंचचदुरयमे । २५ पडिवडिदापडिवडिदे संजमसंमरणाणमादीहिं ॥" [सिद्ध भ० ४ ]
अथ केनावगाहनेन निर्वृत्तिर्भवतीति प्रश्ने तदुच्यते-जीवप्रदेशव्यापित्वं तावदवगाहनमुच्यते । तदवगाहनं द्विप्रकारम् उत्कृष्टावगाहनं जघन्यावगाहनश्चेति । तत्रोत्कृष्टमवगाहनं सपादानि पञ्चधनुःशतानि । जघन्यावगाहनमर्द्धचतुर्थारत्नयः । यः किल षोडशे वर्षे सप्तहस्त
१-या तु इ- आ०, द०,ज० । २ यदा आ०, द०, ज० । ३ आवेदेन आ०, द०, ज०। ४ -सूत्रनयात् आ०,६०,०। ५-मतिश्रुत- ता०। ६ उत्पाद्य ता० ।
For Private And Personal Use Only