________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__३२३
१०१८-९]
दशमोऽध्यायः हेतोस्तृतीयो दृष्टान्तः । तथा अग्निशिखावत् । अग्नेः शिखा प्रदीपकलिका अग्निशिखा अग्निशिखेव अग्निशिखावत्। यथा अग्निशिखा तियम्गमनप्रकृतिमारुतसम्बन्धरहिता सती स्वभावादूर्ध्वं गच्छति तथा मुक्तजीवोऽपि कर्माऽभावे ऊर्ध्वगमनस्वभावा दूर्ध्वमेव गच्छति । इति चतुर्थस्य हेतोश्चतुर्थो दृष्टान्तः । असङ्गबन्धच्छेदयोः को विशेषः ? परस्परप्राप्तिमात्र सङ्गः। परस्परानुप्रवेशोऽविभागेनावस्थितिबन्ध इत्यसङ्गबन्धच्छेदयोर्भेदः ।
अथ यर्ध्वगमनस्वभावो जीवस्तर्हि मुक्तः सन्नूर्ध्वगमनं कुर्वन्नेव त्रिभुवनमस्तकात परतोऽपि किं न गच्छतीति प्रश्ने सति सूत्रमिदमाहुः
धर्मास्तिकायाभावात् ॥८॥ धर्मास्तिकायस्याभावो धर्मास्तिकायाभावस्तस्माद् धर्मास्तिकायाभावात् परतो न गच्छतीति वाक्यशेषः । अस्यायमर्थः-गत्युपकारकारणं धर्मास्तिकायः, स तु धर्मा- १० स्तिकायो लोकान्तात् परतोऽलोके न वर्तते तेन मुक्तजीवः परतोऽपि न गच्छति । यदि परतोऽपि गच्छति तदा लोकालोकविभागो न भवति । तदुक्तम्
"संते वि धम्मदव्वे अहो ण गच्छेइ तहय तिरियं वा । उड्ढग्गमणसहावो मुक्को जीवो हवे जम्हा ।।" [तत्त्वसा० गा० ७१]
अथ मुक्तजीवा गतिजातिप्रभृतिकर्महेतुरहिता अमी अभेदव्यवहारा भविष्यन्तीति १५ शङ्कायां कथश्चिद् भेदव्यवहारस्थापनार्थमिदं सूत्रमाःक्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धयोधितज्ञानावगाहनान्तर
सङ्ख्याल्पबहुत्वतः साध्याः ॥९॥ क्षेत्रञ्च कालश्च गतिश्च लिङ्गश्च तीर्थञ्च चारित्रञ्च प्रत्येकबुद्धबोधितश्च ज्ञानञ्च अवगाहनञ्च अन्तरञ्च सङ्ख्या च अल्पबहुत्वञ्च क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्ध- २० बोधितज्ञानावगाहनान्तरसङख्याल्पबहुत्वानि तेभ्यस्ततः । एभिादशभिः क्षेत्रादिभिः प्रश्नः सिद्धाः साध्या विकल्पनीया भवन्ति भेदव्यवहारवन्तो वर्तन्ते इत्यर्थः । कस्मात् ? प्रत्युत्पन्नभूतानुग्रहतन्त्रनययुग्मार्पणवशात् । प्रत्युत्पन्नो नयः ऋजसूत्रः । भूताऽनुग्रहतन्त्रो नयो व्यवहारः । तथाहि-क्षेत्रव्यवहारस्तावत् कस्मिन् क्षेत्रे सिद्धाः सिद्धयन्ति । प्रत्युत्पन्नग्राहिनयात् ऋजुसूत्रनयान्निश्चयनयादिति यावत् स्वप्रदेशलक्षणे सिद्धिक्षेत्रे सिद्धयन्ति । भूतग्राहिनयाद् २५ व्यवहारनयादाकाशप्रदेशे जन्मोद्दिश्य पञ्चदशसु कर्मभूमिषु वा सिद्धथन्ति । संहरणमुद्दिश्यार्धतृतीयद्वीपलक्षणे मानुषक्षेत्रे सिद्धाः सिद्धयन्ति । तत्संहरणं द्विप्रकारं स्वकृतं परकृतश्च । चारणविद्याधराणामेव स्वकृतम् । देवचारणविद्याधरैः कृतं परकृतम् । अथ कस्मिन् काले सिद्धः सिद्धथति ? प्रत्युत्पन्ननयादेकस्मिन्समये सिद्धयन् सिद्धो भवति । ऋजुसूत्राद्याश्चत्वारो ..
१-भावं ऊ-आ०, द०, जः |
For Private And Personal Use Only