________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२२
तत्त्वार्थवृत्तौ
[ १०/७
द्वितीयं हेतुमाह - असङ्गत्वात् । न विद्यते सङ्गः कर्मभिर्यस्य जीवस्य स भवत्यसङ्गः । असङ्गस्य भावोऽसङ्गत्वं तस्मादसङ्गत्वात् । अस्यायमर्थः- कर्मभाराक्रान्तो जीवस्तदावेश्वशात् संसारे नियतं गच्छति । कर्मभाराक्रान्तवशीकरणाभावे सति ऊर्ध्वमेव गच्छति, इति द्वितीयो हेतुरुक्तः । तथा बन्धच्छेदात् । बन्धस्य छेदनं छेदस्तस्माद् बन्धच्छेदात् । अस्यायमर्थः - मनु५ ध्यादिभवान्तरप्रापकगति जात्यादिनामादि समस्तकर्मबन्धछेदान्मुक्तजी वस्योर्ध्वगमनमेव भवतीति तृतीयो हेतुरुक्तः । तथागतिपरिणामात् । गत्यूर्ध्वगमनं परिणामः स्वभावो यस्य जीवस्य स भवति गतिपरिणामस्तस्माद् गतिपरिणामात् । अस्यायमर्थः - जीवस्तावदूर्ध्वगमनस्वभावः परमागमे प्रतिपादितः । तस्य तु जीवस्य यद्विविधगतिविकारो भवति तस्य कारणं कर्मैव । नष्टे च कर्मणि जीवस्य गतिपरिणामादूर्ध्वगमनस्वभावादुर्ध्वगमनमेव भवति । चकारः १० परस्परं हेतूनां समुच्चये वर्तते । तेनायमर्थ:I :- न केवलं पूर्वप्रयोगादसङ्गतत्वाचोर्ध्वं गच्छति, न केवलमसङ्गत्वात् बन्छच्छेदाश्चोर्ध्वं गच्छति । तथा तैरेव पूर्वप्रयोगासङ्ग बन्धच्छेदप्रकारैर्गतिपरिणामाचोध्वं गच्छति ।
I
अत्राह कश्चित्-हेतुरूपोऽर्थः प्रचुरोऽपि दृष्टान्तसमर्थनं विना वस्तुसाधनसमर्थो न भवति "पक्षे हेतुदृष्टान्तसाधितं वस्तु परमार्थम् ।" [ ] इति वचनात् । इत्यु
१५ पन्यासे पूर्वोक्तानामूर्ध्वगमनहेतुनां क्रमेण दृष्टान्तसूचनं सूत्रमाहआविद्धकुलालचक्रवद् व्यपगतलेपाला बुब देर गडबीजवदग्निशिखावच्च ॥७॥
द०,
आविद्धं भ्रामितं यत्कुलालचक्रं कुम्भकारभ्रामितम् आविद्धकृलालचक्रम् | आविद्धकुलालचक्रमिव आविद्धकुलालचक्रवत् । कुम्भकारप्रयोगेण यत्कृतं करदण्ड चक्रसंयोगपूर्वकं भ्रमणं २० तद्भ्रमणं कुम्भ े कारशयदण्डचक्रसंयोगे विरतेऽपि सति पूर्वप्रयोगाद् यथा आसंस्कारक्षयाचक्रस्य भ्रमणं भवति तथा मुक्तस्याप्यूर्ध्वगमनं भवतीति पूर्वहेतोः पूर्वदृष्टान्तः । व्यपगतलेपालाबुवत् । व्यपगतो विश्लिष्टो लेपो यस्मा ' दलाबुफलात् शुष्कतुम्बकफलात् तद् व्यपगतलेपं तच तदलाबु च तुम्बफलं व्यपगतलेपालाबु, व्यपगतलेपाबु इव व्यपगत लेपाबुवत् । यथा मृत्तिकालेपोत्पादितगुरुत्वम् अलाबु जले क्षिप्तं सत् जलस्याधो गच्छति बुडति निमज्जति । २५ जलक्लेदविश्लिष्टमृतिकाबन्धनं सत् लघुतरं सदूर्ध्वमेव गच्छति तथा जीवोऽपि विश्लिष्टकर्म - कम ऊर्ध्वमेव गच्छति । इति द्वितीयहेतोर्द्वितीयदृष्टान्तः । एरण्डबीजवत् । एरण्डस्य वातारि - वृक्षस्य यद्वीजमेरण्डबीजम् एरण्डबीजमिव एरण्डबीजवत् । यथैरण्डबीजकोशलक्षणबन्धच्छेदात् गतिं करोति तथा जीवोऽपि कर्मबन्धच्छेदादूर्ध्वगमनं करोति । इति तृतीयस्य
२ - भ्रमितम् ता | ३ -काराशय- आ०,
Acharya Shri Kailassagarsuri Gyanmandir
१ -स्योर्ध्वं गमन - आ०, दु०, ज० ।
ज० । ४ -दालाबु-ता, द० ।
For Private And Personal Use Only